________________
४३० ]
स्वोपज्ञोणादिगणसूत्रविवरणम् .
[ सूत्र-६१०-६१५
एभ्यः
प. किन र
विषिः-दीप्तिः, विषिमान , राजवर्चस्वी च । कृषीत् विलेखने, कृषिः कर्षणम् , कर्षणभूमिश्च । ऋषत् , गतौ, ऋषिः-मुनिः, वेदश्च । कुषश् निष्कर्षे, कुषिः-शुषिरम् । शुषंच् शोषणे, शुषिः छिद्रम् , शोषणं च । हृषू अलोके हृषि:-अलोकवादी, दीप्तिः, तुष्टिश्च । ष्णुहोच् उगिरणे, स्नुहिः-वृक्षः । कृत् विक्षेपे, किरिः-सूकरः, मूषिकः, गन्धर्वः गर्तश्च । गृत् निगरणे, गिरिः-नगः, कन्दुकश्च । शृश् हिंसायाम् , शिरिः-हिंस्रः, खड्गः, शोकः, पाषाणश्च । पृश् पालनपूरणयोः, पुरि नगरं, राजा, पूरयिता च । पूङ पवने, पुविःवातः।। ६०९।।
विदि-वृतेर्वा ॥ ६१०॥
आभ्याम् इः प्रत्ययो भवति, स च किद्वा । विदक ज्ञाने, विदिः शिल्पी, वेदि:इज्यादिस्थानम् । वृतूङ वर्तने, वृति:-कण्टकशाखावरणम् । निर्वृतिः-सुखम् , वतिः द्रव्यम्, दीपाङ्गच ।। ६१०॥ त-भ्रम्यद्यापि-दम्भिभ्यस्तित्तिरभृमाधाप-देभाश्च ।। ६११ ॥
प्रत्ययो भवति । एषां च यथासंख्यं तित्तिर-भूम-अध अप-देभ इत्यादेशा भवन्ति तु प्लवनतरणयोः, तित्तिरिः-पक्षिजातिः, प्रवक्ता च वेदशाखाया । भ्रमू चलने, भृमिः-वायु, हस्ती, जलं च । बाहुलकाद् भृमादेशाभावे, भ्रमि:-भ्रमः । अदं प्सांक भक्षणे, अधि-उपरिभावे, अध्यागच्छति । आपलट व्याप्ती, अपि समुच्चयादौ, प्लक्षोऽपिन्यग्रोधोऽपि । दम्भूट दम्भे, देभिः-शरासनम् ।। ६११ ।।
मने-रुदेतौ चास्य वा ।। ६१२ ॥
मनिच ज्ञाने, इत्यस्माद् इ: प्रत्ययो भवत्यकारस्य च ऊकारकारी वा भवतः । मुनिः ज्ञानवान् । मेनिः-संकल्पः । मनि:-धूमवतिः ।। ६१२ ।।
क्रमि-तमि-स्तम्भरिच नमेस्तु वा ॥ ६१३ ॥
एभ्यः किद् इ: प्रत्ययो भवत्यकारस्य चेकारो भवति । नमेः पुनर कारस्येकारो विकल्पेन । क्रमू पादविक्षेपे, क्रिमि:-क्षुद्रजन्तुः । तमूच काङक्षायाम् , तिमिः महामत्स्यः । स्तम्भिः सौत्र:, स्तिभिः-केतकादिसूची, हृदयं, समुद्रश्च । णमं प्रह्वत्वे, निमि:-राजा, नमिः-विद्याधराणामाद्यः तीर्थकरश्च ।। ६१३ ॥
अम्भि-कुण्ठि-कम्प्यहिभ्यो नलुक् च ॥ ६१४ ॥
एभ्य इ. प्रत्ययो नकारस्य च लुग् भवति । अभूङ शब्दे अभि आभिमुख्येऽव्ययम् , अभ्यग्नि शलभाः पतन्ति । कुछ आलस्ये च, कुठिः-वृक्षः, पापं, वृषलः, देहः, गेहं, कुठारश्च । कपुङ चलने, कपिः, अग्निः, वानरश्च । अहुङ गतो, अहिः-सर्पः, वृत्रः वप्रश्च ।। ६१४ ॥
उभेत्रौ च ॥ ६१५॥