________________
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ सूत्र-५५४-५६०
आभ्याम् ईषः प्रत्ययो भवति । कृत् विक्षेपे, करीषः - शुष्कगोमयरजः । तू प्लवनतरणयोः, तरीषः समर्थः स्तम्भः, प्लवश्च ।। ५५३ ।।
४२२ ]
ऋजि-शु-पृभ्यः कित् ॥ ५५४ ॥
एभ्यः किद् ईषः प्रत्ययो भवति । ऋजि गत्यादौ, ऋजीषः - अवस्करः ऋजीषम् - घनम् । शृश् हिंसायाम्, शिरीषः - वृक्षः । पृश् पालन- पूरणयो:, पुरीषं शकृत् ।। ५५४ ।।
अमेर्वरादिः || ५५५ ॥
अम गतौ, इत्यस्माद् वरादिः ईषः प्रत्ययो भवति । अम्बरीषं भ्राष्ट्र, व्योम च । अम्बरीषः - आदिनृपः ।। ५५५ ।।
उषेर्णोऽन्तश्च ।। ५५६ ॥
उषू दाहे, इत्यस्माद् ईषः प्रत्ययो भवति, णकारश्चान्तो भवति । उष्णीषः मुकुटं, शिरोवेष्टनं च ।। ५५६ ।।
ऋ-पू- नहि हनि-कलि-चलि-चपि वपि - कृषि - हयिभ्य उषः || ५५७ ||
एभ्यः उषः प्रत्ययो भवति । ऋश् गतौ, अरुषः - व्रणः, हयः, आदित्यः वर्णः, रोषश्च । पृश् पालन- पूरणयोः, परुषः - कर्कशः । णहींच् बन्धने, नहुषः - पूर्वः राजा । हनक हिंसागत्योः, हनुषः- क्रोधः, राक्षसश्च । कलि शब्द- संख्यानयोः, कलुषम् - अप्रसन्नं, पापं च । चल कम्पने, चलुषः- वायुः । चप सान्त्वने, चपुषः- शकुनिः । डुवपीं बीजसंताने, वपुषःवर्णः । कृपौङ, सामर्थ्ये, कल्पुषः- क्रियानुगुणः । हय क्लान्तौ च हयुषा औषधिः ॥ ५५७ ॥
वि-दि-पृभ्यां कित् ॥ ५५८ ॥
आभ्यां किद् उषः प्रत्ययो भवति । विदक् ज्ञाने, विदुषो विद्वान् । पृश्-पालनपूरणयो:, पुरुष: पुमान्, आत्मा च ।। ५५८ ।।
अपुष - धनुषादयः ॥ ५५६ ॥
अपुषादयः शब्दा उषप्रत्ययान्ता निपात्यन्ते । आप्नोते हं स्वश्च, अपुषः- अग्निः, सरोगश्च । दघातेर्धन् च, धनुषः - शैलः । आदिग्रहणाल्लसुषादयो भवन्ति ।। ५५९ ।।
खलि-फलि-वृ-पृ-कृ-ज़-लम्बि-मजि-पीयि- हन्यङ्गि-मङ्गि गण्डयतिभ्य उषः । ५६० ।
1
एभ्यः ऊषः प्रत्ययो भवति । खल संचये च खलूषः - म्लेच्छजातिः । फल निष्पत्ती, फलूष:-वीरुत् । वृग्ट् वरणे, वरूषः- भाजनम् । पृश् पालन- पूरणयोः - परुषः, वृक्षविशेषः । कृत् विक्षेपे, करूषाः - जनपदः । जुष्चू जरसि, जरूष :- आदित्यः । लबुङ अवस्र सने च लम्बुषः- नीरकदम्बः, निचुलश्च । मञ्जि, पीयिश्च सौत्रौ, मञ्जूषा काष्ठकोष्ठः, पीयूषंप्रत्यप्रसवक्षीरविकारः, अमृतं घृतं च । हनंक् हिंसा गत्योः, हनूषः - राक्षसः । अगु, गतौ