________________
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-७१-७४
श्रुवोऽनाङ्-प्रतेः ॥ ३. ३. ७१ ॥
सन्नन्ताच्छृणोतेः कर्तर्यात्मनेपदं भवति, स चेदाङ्-प्रतिभ्यामुपसर्गाभ्यां परो न भवति । शुश्रुषते गुरून् , संशुश्रूषते शब्दान् । अनाङ्-प्रतेरिति किम् ? प्राशुश्रूषति, प्रति. शुश्रूषति । 'चैत्रं प्रति शुश्रूषते' इति प्रतिना सम्बन्धाभावात् प्रतिषेधो न भवति ।। ७१।।
स्मृ-दृशः ॥ ३. ३. ७२ ॥
स्मृ दृशिभ्यां सन्नन्ताभ्यां कर्तर्यात्मनेपदं भवति। सुस्मूर्षते पूर्ववृत्तम् , दिदृक्षते देवम् ।। ७२।।
शको जिज्ञासायाम् ॥ ३. ३.७३ ॥
शकिः स्वभावादन्यधात्वर्थानुसंहितः प्रवर्तते-शक्नोति भोवतुमन्यद् वेति, ततो ज्ञानानुसंहितार्थात सन्नन्ताव कर्तर्यात्मनेपदं भवति । विद्याः शिक्षते ज्ञातु शक्नुयामितीच्छतीत्यर्थः । जिज्ञासायामिति किम ? शक्तमिच्छति.-शिक्षति, "शिक्षि विद्योपादाने" इत्यनेनैव सिद्धे प्रामनुप्रयोगार्थ वचनम् , तेन 'शिक्षांचके' इति भवति, न तु शिक्षांचकारेति । केचित तु शके: सन्नन्तस्यात्मनेपदमनिच्छन्तः शिक्षतेरेव जिज्ञासायामात्मनेपदमन्यत्रच परस्मैपदमिच्छन्ति ।। ७३ ।।
न्या० स०-शको जि०:-धात्वर्थानुसंहित इति-शकिरन्यस्य धातोरर्थेन युक्त इत्यर्थः, यथा शक्नोति भोक्तुमित्यत्र भुज्यर्थेन युक्त इत्यर्थः । विद्याः शिक्षत इति-आत्मनेपदेनैव जिज्ञासाया अवगमात् जिज्ञासितुमिति न प्रयुज्यते । आमनुप्रयोगार्थमिति-यद्यदः सूत्रं व्यधास्यत तदा शकेर्धातो: सन्नन्तस्य 'आमः कृगः' ३-३.७५ इति आमः परात् कृग आत्मनेपदं नाऽभविष्यत् , ततः शिक्षांचक्रे इति न स्यात् , शिक्षेस्त्वामोऽसंभव एव एकस्वरत्वात् ।
प्राग्वत् ।। ३. ३. ७४ ॥
सनः प्राक् पूर्वो यो धातुस्तस्मादिव सन्नन्तात् कर्तर्यात्मनेपदं भवति, यत् पूर्वस्य घातोरनुबन्धेनोपपदेनार्थविशेषेण वाऽऽत्मनेपदं दृष्टं तत् सन्नन्तादतिदिश्यते । अनुबन्धेन'शी-शेते,' शियिषते; एधि-एधते, एदिधिषते; लोलयते, लोलयिषते; श्येनायते, शिश्येनायिषते उपपदेन-निविशते, निविविक्षते; अश्वेन संचरते अश्वेन संचिचरिषते । अर्थविशेषेण-शास्त्रेऽस्य क्रमते बुद्धिः, चिकंसते उभयेन,-आक्रमते चन्द्रः, आचिकंसते । यत् पुनः सप्रत्ययधातुनिमित्तं तन्नातिदिश्यते शिशत्सति, मुमूर्षति, अत्र हि न शदि-म्रियती एव निमित्ते, कि तहि ? शिदाशीरशतन्योऽपि । अनुबन्धादिनिमित्तमपि यद् विशेषविधानबाधया प्राग न दृष्टं समातिदिश्यते, यथा-अनुकरोति, अनुचिकीर्षति; पराकरोति, पराचिकर्षति । तिजादीनां स्वर्थविशेषेषु केवलानामप्रयोगात् सन्नन्तसमुदायार्थमेव अनुबन्धविधानम् , तेन 'तितिक्षते, जुगुप्सते, मीमांसते, इत्यादौ प्रागदृष्टमप्यात्मनेपदमनुबन्धसाम