________________
४२० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-५३६-५४३
एभ्यः किद् इश: प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः, कुलिशं-वज्रम् । कनै दीप्त्यादौ, कण शब्दे, कनिशं, कणिशं च-सस्यमञ्जरी । पल गतौ, पलिशं-यत्र स्थित्वा मृगाः व्यापाद्यन्ते । वड आग्रहणे सौत्रः, बडिशं-मत्स्यग्रहणम् ॥ ५३५ ।।
बलेणिद्वा ॥ ५३६ ॥
बल प्राणन-धान्यावरोधयोः, इत्यस्मात् किशः स च णिद्वा भवति । बालिशःमूर्खः, बलिश:-मूर्खः, बलिशं-बडिशम् ।। ५३६ ।।।
तिनिशेतिशादयः ॥ ५३७॥
तिनिशादयः शब्दाः किशप्रत्ययान्ता निपात्यन्ते, तनेरिश्चातः । तिनिशः-वक्षः। इणस्तोऽन्तश्च, इतिशः-गोत्रकृषिः । आदिग्रहणादन्येऽपि ।। ५३७ ।।
मस्ज्यङ्किभ्यामुशः ॥ ५३८ ॥
आभ्याम् उशः प्रत्ययो भवति । टुमस्जोंत् शुद्धौ, 'न्य ङ कूद्गमेघादयः' इति गः । मद्गुशः-नकुलः । अकुङ लक्षणे, अङ कुशः-सृणिः ।। ५३८ ॥
अर्तीणभ्यां पिश-तशौ ॥ ५३६ ॥
आभ्यां यथासंख्यं पिश तश इत्येतो प्रत्ययौ भवतः । ऋक् गतौ, अपिशम्-आर्द्रमांसम् , बालवत्साया दुग्धं च । इंण्क् गतौ, एतश:-अश्वः, ऋषिः, वायुः, अग्निः, अर्कश्च ॥ ५३९ ॥
वृ-क-तृ-मीङ्-माभ्यः षः ॥ ५४०॥
एभ्यः षः प्रत्ययो भवति । वृन्ट् वरणे वर्षः-भर्ता, वर्षः- संवत्सरः । वर्षा:-ऋतुः । कृत् विक्षेपे, कर्षः-उन्मानविशेषः। तृ प्लवनतरणयोः, तर्षः-प्लव:. हर्षश्च । मीङ च हिंसायाम् , मेष:-उरभ्रः । मांक माने, माषः-धान्यविशेषः, हेमपरिमाणं च ।। ५४० ॥
योरूच वा ॥ ५४१॥
युक् मिश्रणे, इत्यस्मात् षः प्रत्ययो भवति, ऊकारश्चान्तादेशो वा भवति । यूष:पेयविशेषः, यूषा-छाया, योषा-स्त्री ।। ५४१ ॥
स्नु-पू-सम्बर्कलूभ्यः कित् ॥ ५४२ ॥
स्वादिभ्योऽर्कपूर्वाच्च लुनाते: कित् षः प्रत्ययो भवति । स्नुक प्रस्रवणे, स्नुषापुत्रवधूः । पूग्श् पवने, पूषः- पवनभाण्डम् , शूर्पादिः । पूत् प्रेरणे, सूष:-बलम् । मूङ बन्धने मूषा-लोहरक्षणभाजनम् । लूग्श् छेदने, अर्कपूर्वः, अर्कलूषः-ऋषिः ।। ५४२ ॥
श्लिषेः शे च ॥ ५४३ ॥
श्लिषंच आलिङ्गने, इत्यस्मात् ष: प्रत्ययो भवत्यस्य च शे इत्यादेशो भवति । शेष:-नागराजः। ५४३॥