________________
३५४ ]
स्वोपज्ञोणादिगणमूत्रविवरणम्
[ सूत्र -८२-९०
चण्डि मल्लिभ्यामातकः ॥ ८२ ॥
आभ्यामातकः प्रत्ययो भवति । चडुङ कोपे, चण्डातकं नर्तक्यादिवासः । भल्लि परिभाषण हिंसादानेषु भल्लातकः - वृक्षः ।। ८२ ॥
·
श्लेष्मातकाम्रातका मिलातक-पिष्टातकादयः ॥ ८३ ॥
एते आतकप्रत्ययान्ता निपात्यन्ते । श्लिषेमंश्च परादिः, श्लेष्मातकः कफेलुः । अमेर्वृद्धो रश्चान्तः, आम्रातक:- वृक्षः । नत्रः परस्य म्लायतेमिल् च, अमिलातकम् - वर्णपुष्पम् । विषेस्तोऽन्तश्च पिष्टातकंवर्णचूर्णम् आदिग्रहणात् कोशातक्यादयो भवन्ति ॥ ८३ ॥
शमि-मनिभ्यां खः ॥ ८४ ॥
आभ्यां खः प्रत्ययो भवति, शमूच् उपशमे शङ्खः कम्बु, निषिश्च । मनिच् ज्ञाने, मङ्खः मागधः, कृपणः, चित्रपटश्च मङ्खा - मङ्गलम् ॥ ८४ ॥
श्यतेरिच्च वा ॥ ८५ ॥
शोंच् तक्षणे, इत्यस्मात् खः प्रत्ययो भवति, इश्चास्यान्तादेशो वा भवति । शिखाचूडा, ज्वाला च, विशिखा - आपणः । विशिखः - बाणः । शाखा-विटपः । विशाखा नक्ष श्रम् । विशाख:- स्कन्दः ।। ८५ ।।
पू-मुहोः पुन्मुरौ च ॥ ८६ ॥
पूङ पवने मुहौच् वैचित्ये, इत्येताभ्यां खः प्रत्ययो भवति । अनयोश्च यथासंख्यं पुनमुर् इत्यादेशौ भवतः । पुङ्खः - बाणबुध्नभागः, मङ्गलाचारश्च । मूर्खः - अज्ञः ।। ८६ ।।
अशेर्डित् ॥ ८७ ॥
अशोटि व्याप्ती, इत्यस्मात् डित् खः प्रत्ययो भवति । अश्नुत इति खमाकाशमिन्द्रियं च नास्य खमस्ति नखः, शोभनानि खानि अस्मिन् सुखम् । दुष्टानि खान्यस्मिन् दुःखम् ।। ८७ ।।
उषेः किल्लुक् च ॥ ८८ ॥
उष् दाहे, इत्यस्मात् कित् खः प्रत्ययो भवति, लुक् चान्त्यस्य भवति । उषन्त्यस्यामिति उखा स्थाली, ऊर्ध्वक्रिया वा ॥ ८८ ॥
मरुच्चास्य वा ॥ ८६॥
मह पूजायाम्, इत्यस्मात् खः प्रत्ययः अन्तलुक् अकारस्य च उकारादेशो वा भवति । मुखमाननम्, मखः यज्ञः, अध्वर्युः, ईश्वरश्च ॥ ८९ ॥
न्युङ्खादयः ॥ ६० ॥