________________
पाद - ४, सूत्र ७६-७७ ] श्री सिद्ध हेमचन्द्र शब्दानुशासने पंचमोऽध्यायः [ ३३३
पाश्वभ्यामुपपीडं शेते, पार्श्वोपपीडं शेते; पार्श्वयोरुपपीडं शेते, पार्श्वोपपीडं शेते; व्रजेनोपरोधं व्रजोपरोधं गाः सादयति, व्रजे उपरोधं व्रजोपरोधं गाः स्थापयति; पाणिनोees पाogues धानाः पिनष्टि, पाणावुपकर्षं पाण्युपकर्ष धाना गृह्णाति । कर्ष इति शनिर्देशाद् भौवादिकस्य 'कर्षन्ति शाखां ग्रामम्' इति द्विकर्मकस्याकर्षणार्थस्य ग्रहणम्, न तु तौदादिकस्य पञ्चभिर्हलै : कृषतीति विलेखनार्थस्य, तेनभूमावुपकृष्य तिलान् वर्षात, हलेनोपकृष्य वपतीत्यत्र न भवति । अन्ये त्वनयोरर्थभेदमप्रतिपद्यमानास्तौदादिकादपीच्छन्ति ।
उपेति किम् ? पार्श्वेन निपीड्य तिष्ठति । श्रन्ये तूपपूर्वादेव पीडेरिच्छन्ति, - कर्षाभ्यां तु कामचारेण तेन-व्रजरोधं गाः स्थापयति, हस्तरोधं दधद्धनुः, व्रजेन रोधम् हस्तेन रोधम् । उपपूर्वादपि व्रजोपरोधं गाः स्थापयति । अन्योपसर्गपूर्वादपि व्रजानुरोध गाः स्थापयति, एवं पाणिकर्ष धाना गृह्णाति, पाणौ कर्ष, पाणिना कर्षमित्याद्यपि भवति ||७||
न्या० स०-उपपीड-पीडश्च रुधश्च कर्षश्च पीडरुधकर्षम्, उपः पूर्वो यस्मात्तदुपपूर्वं उपपीडं च तत् पीडरुघकर्षं चेति कर्म्मधारयः तस्मात्, निर्देशस्य सौत्रत्वात् कर्षशब्दाऽकारलोप: । रुकर्षाभ्यां त्विति - उपपूर्वाभ्यामन्योपसर्गपूर्वाभ्यां निरुपसर्गाभ्यां चेत्यर्थः ।
प्रमाण- समासयोः ॥ ५. ४. ७६ ॥
आयाममानं प्रमाणं, समासत्तिः संरम्भपूर्वकः संनिकर्ष:, तयोर्गम्यमानयोस्तृतीयान्तेन सप्तम्यन्तेन च योगे धातोस्तुल्यकर्तृ केऽर्थे वर्तमानाद् धातोः सम्बन्धे सति णम् वा भवति ।
द्वयङ्गुलेनोत्कर्षं द्वद्यङ्गुलोत्कर्षं गण्डिका श्छिनत्ति, द्वघङ्गुले उत्कर्ष द्वघगुलोhi गण्डिकाछिनत्ति । समासत्तौ केशग्रहं केशग्राहं युध्यन्ते, केशेषु ग्राहं केशग्राहं युध्यन्ते, एवं हस्तग्राहम् अस्यपनोदं युध्यन्ते, युद्धसंरम्भादत्यन्तं संनिकृष्य युध्यन्त इत्यर्थः । पक्षेद्वयङ्गुलेनोत्कृष्य द्वघङ्गुले उत्कृष्य गण्डिकाश्छिनत्ति, केशं गृहीत्वा केशेषु गृहीत्वा युध्यन्ते ।। ७६ ।।
न्या० स०-प्रमाणसमास-द्वयगुलेनोत्कर्षमिति - द्वयोरङ्गुल्योः समाहारः संख्याव्यय' ७-३ - १२४ इति ङः द्वे अङ्गुलीप्रमाणमस्येति तु न कर्त्तव्यं तस्मिन् हिन प्रमाणप्रतीतिः किंतु प्रमाणवतः द्वयङ गुलेन दैर्घ्यं परिछिद्य इक्ष्वादेर्गण्डिका श्छिनत्ति ।
पञ्चम्या त्वरायाम् ॥। ५. ४. ७७ ।।
त्वरा परीप्सा औत्सुक्यमिति यावत्, तस्यां गम्यमानायां पञ्चम्यन्तेन योगे धातोस्तुल्यकर्तृ केऽर्थे वर्तमानाद् धातोः सम्बन्धे सति णम् वा भवति ।
4
शय्याया उत्थायं शय्योत्थायं धावति, एवं नाम त्वरते यदावश्यकादिकमपि नापेक्षते । स्तनरन्ध्रादपकर्षं स्तनरन्ध्रापकर्षं पयः पिबति, एवं नाम त्वरते यत् पात्रे दोहमप्यप्रतीक्ष्य मुख एव पयः पिबतीत्यर्थः । पक्ष - शय्याया उत्थाय धावति । त्वरायामिति किम् ? आसनादुत्थाय गच्छति ॥७७॥