________________
पाद–४, सूत्र- ४९-५० ] श्री सिद्ध हेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ ३२५
भोजं भोजं व्रजति, भुक्त्वा भुक्त्वा व्रजति पायं पायं गच्छति, पीत्वा पोरवा गच्छति श्रग्रे भोजं भोजं व्रजति, प्रग्रे भुक्त्वा भुक्त्वा व्रजति । श्रत्र क्त्वा रणमोहिस्वादिवत् प्रकृत्यर्थोपाधिद्योतने सामर्थ्यं नास्तीत्याभीक्ष्ण्याभिव्यक्तये द्विर्वचनं भवति । इह कस्मात् ख्णम् न भवति यदयं पुनः पुनर्भुक्त्वा व्रजति, अधीते एव ततः परम्, आभीक्ष्ण्यस्य स्वशब्देनैवोक्तत्वात् । क्त्वापि तहि न प्राप्नोति ? मा भूदाभीक्ष्ण्ये, प्राक्काल्ये भवि व्यति । वाऽधिकारेणैव पक्षे क्त्वाप्रत्ययस्य सिद्धौ चकारेण तस्य विधानं वर्तमानादिप्रत्ययान्तरनिषेधार्थम् । ननु कत्वादिभिर्भावे विधीयमानैः कर्तु रनभिहितत्वादोदनं पक्त्वा भुङ्क्ते देवदत्त इत्यादिषु कर्तरि तृतीया प्राप्नोति ? नैवम् भुजिप्रत्ययेनैव कर्तुं रभिहितत्वान्न भवति 'प्रधानशवत्यभिधाने हि गुणशक्तिरभिहितवत् प्रकाशते' इति । खित्वं 'चौरंकारमाक्रोशति, खादु कारं भुङ्क्ते इत्युत्तरार्थम् ॥ ४८ ॥
न्या० स०- णम् चाभीक्ष्ण्ये यदयं पुनः पुनरिति ननु भृशाभोक्ष्ण्ये वर्त्तमानस्य धातोद्विर्वचनं भवति इह तु कथम् ? सत्यं, क्रियाविशेषणमपि क्रिया । वर्त्तमानादिप्रत्ययान्तरेति तेनाग्रे भुङ्क्ते भुङ्क्ते व्रजितुमित्यादि न भवति ।
पूर्वाग्रे प्रथमे । ५ ४ ४१ ॥
'पूर्व अग्रे प्रथम' इत्येतेषूपपदेषु परकालेन तुल्यकर्तृ के प्राक्कालेऽर्थे वर्तमानाद् धातोर्धातोः संबन्धे रुणम् वा भवति । अनाभीक्ष्ण्यार्थं वचनम् ।
पूर्व भोजं व्रजति, पूर्वं भुक्त्वा व्रजति । श्रग्रे भोजं व्रजति, अग्रे भुक्त्वा व्रजति । प्रथम भोजं व्रजति, प्रथमं भुक्त्वा व्रजति । वर्तमानादयोऽपि पूर्वं भुज्यते ततो व्रजति, अग्रे भुज्यते ततो व्रजति, प्रथमं भुज्यते ततो व्रजति । पूर्वादयश्चात्र व्यापारान्तरापेक्ष प्राक्काल्ये व्रज्यापेक्षे तु क्त्वा ख्णमाविति नोक्तार्थता, ततश्चायमर्थोऽन्य भोक्तृभुजिक्रियाभ्यः स्वक्रियान्तरेभ्यो वा पूर्वं भोजनं कृत्वा व्रजतीत्यर्थः । पूर्वप्रथम साहचर्यात् श्रग्रेशब्दः कालवाची ||४६||
न्या० स० - पूर्वाग्रेप्रथमे - पूर्वश्चाऽग्रेश्च प्रथमश्चेति द्वंद्वात् सप्तमी, उदाहरणेषु पूर्वाग्रेप्रथमेभ्यः 'कालाध्वनो:' २-२-४२ इति द्वितीया । अनाभोक्ष्ण्यार्थं वचनमिति - एतच्चोपलक्षणं पक्षे वर्त्तमानादिप्राप्त्यर्थं च । पूर्वं भुज्यते ततो व्रजतीति वर्त्तमानायाः प्राक्काल्याभिधानेऽसामर्थ्यात्तत इत्युपादायि । पूर्वादयश्चेति नन्वनेन प्राक्काले क्त्वा प्राक्कालश्च पूर्वादिभिरेवोक्त इति क्त्वा न प्राप्नोति ? इत्याशङ्का-साहचर्यादिति-पूर्वप्रथमौ तावदऽस्याद्यन्तौ कालवाचकौ अयमपि तादृशौ गृह्यते ।
अन्यथैव कथमित्थमः कृगोऽनर्थकात् ॥ ५. ४ ५० ॥
एभ्यः परात्तुल्यकर्तृकेऽर्थे वर्तमानात् करोतेरनर्थकात् धातोः संबन्धे रुणम् वा
भवति ।
अन्यथाकारं भुङ्क्ते, एवंकारं भुङ्क्ते, कथंकारं भुङ्क्ते, इत्थंकारं भुङ्क्ते; पक्षे वत्वैव अन्यथा कृत्वा, एवं कृत्वा, कथं कृत्वा, इत्थं कृत्वा भुङ्क्ते । एवमुत्तरत्रापि । आन