________________
पाद-४, सूत्र-४४-४६ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[३२३
मधीष्व भाष्यमधीष्वेत्येवाधीध्वे पठथ, पक्षे-सूत्रमधीध्वे नियुक्तिमधीध्वे भाष्यमधीध्वे इत्येवाधीध्वे पटथ । एवं-वचनान्तरे त्रिकान्तरे विभक्त्यन्तरेऽप्युदायिम् ।
___सामान्यार्थस्येति किम् ? वोहीन वप लुनीहि पुनोहीत्येव वपति, लुनाति, पुनातोति मा भूत, प्राममट, वनमट, गिरिमटेत्येव प्राममटति, वनमटति, गिरिमटतीति च मा भत् , कारक मेदेनाटतीत्यस्य सामान्यार्थत्वाभावात् ॥४३॥
न्या० स०-प्रचये नवा-समान एव सामान्यः स्वार्थे घ्यणन्तो वाचस्पतिना पुंलिङ्गो निणिन्ये, सामान्योऽर्थो यस्य, यद्वा समानस्य भावः सामान्यमर्थो यस्य । यथा. विधीति च नानुवर्तत इति-प्रचय इति भणनात् सामान्यार्थस्येति भणनाच्च । एवं वचनान्तरे त्रिकान्तरे इति-एतच्च हिस्वी प्रत्येव ज्ञातव्यं, न तध्वमौ तयोरेव घटनात् ।
निषेधेऽलं-खल्वोः क्त्वा ॥ ५. ४. ४४ ॥ निषेधे वर्तमानयोरलं-खलुशब्दयोरुपपदयोर्धातोः क्त्वा प्रत्ययो वा भवति ।
अलं कृत्वा, खलु कृत्वा, न कर्तव्यमित्यर्थः; पक्षे यथाप्राप्तम्-अलं वत्स ! रोदनेन, अलं रुदितेन, अलं रुदितम्, क्त्वान्तयोग एव खलुशग्दो निषेधवाचीति पक्षे खलुशब्दो नोदाह्रियते । अन्ये तु-'खलु कृतेन, खलु भोजनेन, खलु भोजनम्' इत्यप्युदाहरन्ति । निषेध इति किम् ? अलंकारः स्त्रियाः, सिद्धं खलु । अलंखल्वोरिति किम् ? मा कारि भवता।४४।
न्या० स०-निषेधेऽलंखल्यो:-क्त्वातुमादीनां कृत्संज्ञाया 'निसनिक्षनिन्द' ५-२-६८ इत्यत्र फलम् । खलुशब्दो नोवाहियत इति-वाक्यमपि खलु विधायेति धात्वन्तरेण कार्यम् ।
परा-वरे॥५. ४.४५ ॥ परे अवरे च गम्यमाने धातोः क्त्वा वा भवति ।
अतिक्रम्य नदी पर्वतः, नद्याः परः पर्वत इत्यर्थः; बाल्यमतिक्रम्य यौवनम् । अवरेअप्राप्य नदी पर्वतः, नद्या अर्वाक पर्वत इत्यर्थः; अप्राप्य यौवनं बाल्यम् । नदी-पर्वतयोऔल्य-योवनयोर्वा परावरत्वमात्रं प्रतीयते, अस्ति प्राप्यत इति वा, न द्वितीया क्रियेति तुल्यकर्तृकक्रियान्तराभावात् "प्राक्काले" (५-४-४७) इति न सिध्यतीति वचनम् । वाऽधिकाराद् यथाप्राप्तं च-नद्यतिक्रमेण पर्वतः, नद्यप्राप्त्या पर्वतः॥४५॥
न्या० स० परावरे-अतिक्रम्य नदी पर्वत इति-अतिक्रमेणेति वाक्यं वाक्ये च इत्थंभूतलक्षणे तृतीया। परावरत्वमात्रमिति-क्रियाद्वये विद्यमानेऽपि परावरत्वमात्रं जिज्ञासितम् ।
निमील्यादिमेङस्तुल्यकर्तृ के ॥ ५. ४. ४६ ॥
तुल्यो धात्वर्थान्तरेण कर्ता यस्य स तुल्यकर्तृ कस्तस्मिन्नर्थे वर्तमानेभ्यो निमोल्यादिभ्यो मेङश्च धातोः संबन्धे सति क्त्वा वा भवति । निमील्यादीनां समानकालार्थो मेङस्तु परकालार्थ आरम्भः । स्वभावात मेङ् व्यतिहार एव वर्तते ।