________________
पाद-४, सूत्र-४२ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[३२१
न्या० स०-धातोः संबन्धे-धात्वर्थ उच्यते इति-शब्दतः संबन्धाऽभावात् । भाविकृत्यमिति-भविष्यतीति 'भुवो वा' ९२२ (उणादि) इत्यौणादिको णिन् । भावीति भविव्यत्कालः प्रत्यय इति-नन्वौणादिकानां अनुपात्तकालविशेषाणां त्रिष्वपि कालेषु प्रवृत्तेः कथं भविष्यत्त्वम् ? सत्यं, अस्य गम्यादित्वात् 'वय॑ति गम्यादिः' ५-३-१ इत्यनेन भविष्यत्त्वम् । विपर्ययो न भवतीति-भवितेति भविष्यत्काल: प्रत्ययो विश्वदृश्वेति भूतकालेन सबध्यमान: साधुर्भवतीत्यादिरूपः, विश्वदृश्वेत्यादि हि विशेषणं भवितेति च विशेष्यम् ।
अधात्वधिकारविहिता अपीति-अन्यथा धातुप्रकरणत्वात् धातोरेव परे ये प्रत्ययास्त एव स्युः। भृशा-ऽऽभीक्ष्ण्ये हि-स्वौ यथाविधि, त-ध्वमौ च तद्य ष्मदि
॥५. ४.४२ ॥ गुणक्रियाणामधिश्रयणादीनां क्रियान्तररव्यवहितानां साकल्यं फलातिरेको वा भशत्वम, प्रधानक्रियाया विक्लेदादः क्रियान्तररव्यवहिताया: पौनःपन्यमाभीक्षण्यम. तदिशिष्टे सर्वकालेऽर्थे वर्तमानाद् धातोः सर्वविभक्ति-सर्ववचनविषये हि-स्वौ पञ्चमीसंबन्धिनौ भवतः, यथाविधि धातोः संबन्धे-यत एव धातोर्यस्मिन्नेव कारके हि-स्वौ विधीयेते तस्यैव धातोस्तत्कारकविशिष्टस्यैव संबन्धेऽनुप्रयोगरूपे सति; तथा त-ध्वमौ हि-स्वसाहचर्यात पञ्चम्या एव संबन्धिनौ, तयोः त-ध्वमोः संबन्धी बहुत्वविशिष्टो युष्मत, तस्मिस्तद्युस्मदि अभिधेये भवतः, चकाराद्धि-स्वौ च यथाविधि धातोः संबन्धे।
लुनीहि लुनीहीत्येवायं लुनाति, अनुप्रयोगात् कालवचनभेदोऽभिव्यज्यते । लुनीहि लुनीहीत्येवेमौ लुनीतः, लुनीहि लुनीहीत्येवेमे लुनन्ति; लुनीहि लुनीहीत्येव त्वं लुनासि, युवां लुनीथः, यूयं लुनीथ; लुनीहि लुनीहीत्येवाहं लुनामि, आवां लुनीवः, वयं लुनीमः; • एवं लुनीहि लुनीहीत्येवायमलावीत्, लुनीहि लुनीहित्येवायमलुनात, लुनीहि लुनीहीत्येवाऽयं लुलाव, लुनोहि लुनीहीत्येवायं लविष्यति, लुनीहि लुनीहीत्येवायं लविता, लुनीहि लुनीहोत्येवायं लुनीयात् , लुनीहि लुनोहीत्येवायं लुनातु, लुनीहि लुनीहीत्येवायं लूयात् ।
एवमधीष्वाऽधीष्वेत्येवायमधोते, इमावधीयाते, इमेऽधीयते; अधीष्वाऽधीष्वेत्येव त्वमधीक्षे, युवामधीयाथे, यूयमधीध्वे; अधीष्वाऽधीष्वेत्येवाऽहमधीये, प्रावामधीवहे, वयमधीमहे । तथा-अधीष्वाऽधीष्वेत्येवायमध्यगीष्ट, अधीष्वाऽधीष्वेत्येवायमध्येत, अधीप्वाऽधोष्वेत्येवायमधिजगे, अधीष्वाऽधीष्वेत्येवायमध्येष्यते, अधीष्वाऽधीष्वेत्येवायमध्येता, अधीष्वाऽधीष्वेत्येवायमधीयोत, अधीष्वाऽधीष्वेत्येवाऽयमधीताम्, अधीष्वाऽधीष्वेत्येवायमध्येषीष्ट । एवं सर्वविभक्तिवचनान्तरेष्वपि हि-स्वावदाहरणीयौ।
एवं भावकर्मणोरपि-शय्यस्व शय्यस्वेत्येव शय्यते अशायि शायिष्यते भवता, ल्यस्व ल्यस्वेत्येव लूयते अलावि लाविष्यते केदारः ।
तध्वमौ च तद्युष्मदि-लुनीत लुनोतेत्येव यूयं लुनीथ, लुनीहि लुनीहीत्येव यूयं