________________
३१४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-२१-२३
यच्च-यत्रयोः पूर्वेण सप्तम्येव । अयदाविति किम् ? आश्चर्य यदि स भुजीत, चित्रं यदि सोऽधीयीत्त, प्रत्र प्रश्रद्धाऽप्यस्तीति “जातु-यद्-यदा-यदौ सप्तमी" (५-४-१७) इत्यनेन सप्तमी ॥२०॥
___ न्या० स०- शेषे भविष्य पूर्वेण सप्तम्येवेति-'चित्रे' ५-४-१९ इत्यनेन । अश्रद्धाप्यस्तीति-न केवलं यदिशब्दयोगः ।
सप्तम्युताऽप्योर्बाढे ॥ ५. ४. २१ ॥ बाढेऽर्थे वर्तमानयोरुताऽप्योपपदयोर्धातोः सप्तमी भवती । सर्वविभक्त्यपवादः ।
उत कुर्यात, अपि कुर्यात् , वाढं करिष्यतीत्यर्थः । बाढ इति किम् ? उतः दण्डः पतिष्यति ?, अपिधास्यति द्वारम्, प्रश्न: पिधानं च यथा क्रमं गम्यते । वोतात् प्रागिति निवृत्तम् । इतः प्रभृति सप्तमीनिमित्ते सति भूते भविष्यति च क्रियातिपतने नित्यं क्रियातिपत्तिः-उताऽकरिष्यत् , अप्यकरिष्यत् ।।२१।।
न्या० स०-सप्तम्यताप्यो-बाढं करिष्यतीति एवमन्या अपि विभक्तयो द्रष्टव्याः, सन्निहितत्वाच्च भविष्यन्त्येव दर्शिता।
संभावनेऽलमर्थे तदर्थानुक्तौ ॥ ५. ४. २२ ॥
अलमोऽर्थः सामर्थ्य तद्विषये संभावने-श्रद्धाने गम्यमाने तदर्थस्यालमर्थार्थस्य शब्दस्यानुक्तावप्रयोगे धातोः सप्तमी भवति । सर्वविभक्त्यपवादः ।
शक्यसंभावने-अपि मासमुपवसेत् , अपि पुण्डरिकाध्ययनमह्नाऽधीयोत, अपि स्कन्दकोद्देशं यामेनाधीयोत । अशक्यसंभावने-अपि शिरसा पर्वत भिन्द्यात , अपि खारीपाकं भुञ्जीत, अपि समुद्रं दोभ्यां तरेत् । अलमर्थ इति किम् ? निदेशस्थायी मे जिनदत्तः प्रायेण गमिष्यति । तदर्थानुक्ताविति किम् ? वसति चेत् सुराष्ट्रेषु वन्दिष्यतेऽलमुज्जयन्तम् , शक्तश्चैत्रो धर्म करिष्यति । अत्र सप्तमीनिमित्तमस्तीति भते भविष्यति च क्रियातिपतने नित्यं कियातिपत्तिर्भवति-अपि पर्वतं शिरसाऽभेत्स्यत् । तथा 'काकिन्या हेतोरपि मातुः स्तनं छिन्द्यात्' इत्यत्र "क्षेपेऽपि-जात्वोर्वर्तमाना" (५-४-१२) इति वर्तमानां बाधित्वा, चित्रमाश्चर्यमपि शिरसा पर्वतं भिन्द्यादित्यत्र तु "शेषे भविष्यन्त्ययदौ" (५-४-२०) इति भविष्यती च बाधित्वा परत्वादनेन सप्तम्येव भवति ।।२२।।
अयदि श्रद्धाधातौ नवा ।। ५. ४. २३ ॥
श्रद्धा-संभावना, तदर्थे धातावपपदेऽलमर्थविषये संभावने गम्यमाने धातोः सप्तमी वा भवति, अयदि-यच्छब्दश्चेन्न प्रयुज्यते । पूर्वण नित्यं प्राप्ते विकल्पः ।
श्रद्दधे संभावयामि अवकल्पयामि-भुञ्जीत भवान् । पक्षे यथाप्राप्तम्-भोक्ष्यते भवान् , प्रभुक्त भवान् , प्रभुङ्क्त भवान् । प्रयदीति किम् ? संभावयामि यद् भुञ्जीत भवान्, श्रद्धाधाताविति किम् ? अपि शिरसा पर्वतं भिन्द्यात् , उभयत्र पूर्वेण नित्यं सप्तमी।