________________
पाद-४, सूत्र-१२-१४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[३११
वावचनाद् यथाप्राप्तं च-कथं सेवते, धिग् गर्हामहे । उतात् प्रागिति किम् ? कालो यदभोक्ष्यत भवान् । भूत इत्येव ? ए यति नित्यमेव ।।११॥
___ न्या० स०-वोतात् प्राक्-प्राधायकृतमिति-'अव्ययं प्रवृद्धादिभिः' ३-१-४८ इति सः । असे विष्यतेति--'कथमि सप्तमी च वा' ५-४-१३ इति सप्तम्यर्थः । यदभोक्ष्यतेति-अत्र सप्तमी यदि' ५-४-३४ इति सप्तम्यर्थता ततो भूते क्रियातिपत्तिः ।
क्षेपेऽपि-जात्वोर्वर्तमाना ॥ ५. ४. १२ ॥
भूत इति निवृत्तम्, क्षेपो-गर्हा, तस्मिन् गम्यमानेऽपि-जात्वोरुपपदयोर्धातोर्वर्तमाना विभक्तिर्भवति । कालसामान्ये विधानात् कालविशेषे विहिता अपि प्रत्ययाः परत्वादनेन बाध्यन्ते।
. अपि तत्रभवान् जन्तून् हिनस्ति, जातु तत्रभवान् भूतानि हिनस्ति, अपि संयतः सन्ननागाढे तत्रभवानाधायकृतं सेवते, धिग् गहमिहे । इह सप्तमीनिमित्ताभावात् क्रियातिपतने क्रियातिपत्ति!दाह्रियते ।।१२।।
न्या० स०-क्षेपेऽपिजा-भूत इति निवृत्तमिति-क्रियातिपत्तिसंबद्धत्वात् भूतस्य । - कथमि सप्तमी च वा ।। ५.४, १३ ॥
कथंशब्दे उपपदे क्षेपे गम्यमाने धातोः सर्वेषु कालेषु सप्तमी चकाराद् वर्तमाना च विभक्ती वा भवतः । वावचनाद् यथाप्राप्तं च ।।
कथं नाम तत्रभवान् मांस भक्षयेत् , मांस भक्षयति, धिग् गमिहे, अन्याय्यमेतत् । पक्षे-अबभक्षत् , अभक्षयत् , भक्षयांचकार, भक्षयिता, भक्षयिष्यति । अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिर्भवति-कथं नाम तत्रभवान् मांसमभक्षयिष्यत, भक्षयेत् , भक्षयति, अबभक्षत् , अभक्षयत् , भक्षयांचकार । भविष्यति तु क्रियातिपतने नित्यमेव क्रियातिपत्तिः-कथं नाम तत्रभवान् मांसमभक्षयिष्यत् , न तु वर्तमाना-सप्तमीभविष्यन्तीश्वस्तन्यः । क्षेप इत्येव ? कथं नाम तत्रभवान् साधूनपूपुजत् , एवं-यथाप्राप्ति वर्तमानादयो भवन्ति ।।१३।।।
किंवृत्ते सप्तमी-भविष्यन्त्यौ ॥ ५. ४. १४॥ किंवृत्ते उपपदे क्षेपे गम्यमाने धातोः सप्तमी-भविष्यन्त्यौ भवतः, सर्वविभक्त्य
पवादः।
किं तत्रभवाननृतं ब्रूयात् , कि तत्रभवान् अनृतं वक्ष्यति, को नाम कतरो नाम कतमो नाम यस्मै तत्रभवानन्तं ब्रयात् , अन्तं वक्ष्यति । अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः-किं तत्रभवाननृतमवक्ष्यत् , पक्ष-ब्रू यात् वक्ष्यति च । भविष्यति तु नित्यम्-तत्रभवाननृतमवक्ष्यत् । क्षेप इत्येव ? किं तत्रभवान् देवानपूपुजदित्यादि ।।१४।।