SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ पाद-३, सूत्र-७६-७९ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२८९ स्थितेरचलनमभ्रषः, निपूर्वादिणोऽभ्रषविषयेऽर्थे वर्तमानाद् भावाऽकोंर्घ प्रत्ययो भवति । शास्त्रलोकप्रसिद्ध्यादिना नियतमयनं-न्यायः । अभ्रष इति किम् ? न्ययं गतश्चौरः ।। ७५ ।। परेः क्रमे ॥ ५. ३. ७६ ॥ क्रमः परिपाटी, परिपूर्वादिण: क्रमविषयेऽर्थे वर्तमानाद् भावाऽकोंर्घन भवति । तव पर्यायो भोक्तुम् , मम पर्यायो भोक्तुम् , क्रमेण पदार्थानां क्रियासंबन्धः पर्यायः। क्रम इति किम् ? पर्ययः स्वाध्यायस्य, अतिक्रम इत्यर्थः, विपर्ययो मतेः, अन्यथाभवनमित्यर्थः।। ६७ ।। व्युपाच्छीङः ॥ ५. ३. ७७ ॥ व्युपाभ्यां पराच्छोडो भावाकोंर्घञ् भवति, कमे-क्रम विषयश्चेद् धात्वर्थो भवति । तव राजविशायः, मम राजोपशायः । क्रमप्राप्तं पर्यायसाध्यं शयनमुच्यते । अन्ये तु शयितु पर्याय उच्यते इत्याहुः । क्रम इति किम् ? विशयः, उपशयः ॥७७॥ न्या० स०-व्युपाच्छोङः-स्वमते शयनस्य प्राधान्यं तन्मते तु पर्यायस्येति तात्पर्यार्थः । हस्तप्राप्ये चेरस्तेये ॥ ५. ३.७८ ॥ हस्तेनोपायान्तरनिरपेक्षेण प्राप्तु शक्यं-हस्तप्राप्यम् , तद्विषयाच्चिनोतेर्भावाsकोंघञ् भवति, अस्तेये-न चेद् धात्वर्थः स्तेये-चौयें भवति । हस्तप्राप्यशब्देन प्रत्यासत्तिः प्राप्यस्य लक्ष्यते, तेन प्रत्यासत्तिविषये धात्वर्थे विधानम् । पुष्पप्रचायः, फलावचायः, फलोच्चायः, फलोच्चायश्च संहतः । उदो नेच्छन्त्यन्येफलोच्चयः । हस्तप्राप्य इति किम् ? पुष्पप्रचयं करोति तरुशिखरे । अस्तेय इति किम् ? स्तेयेन पुष्पप्रचयं करोति । हस्तप्राप्यशब्देन प्रमाणमप्युच्यते-यद्धस्ते संभवति न हस्तादतिरिच्यते इति, ततश्च "माने" (५-३-८१) इत्यनेनैव सिद्ध नियमार्थ वचनम्-अस्तेय एवेति, तेन पुष्पाणां हस्तेन प्रचयं करोति चौर इत्यत्र "माने" (५-३-८१) इत्यनेनापि घञ् न भवति ॥७॥ न्या० स०-हस्तप्राप्ये-यद्धस्ते संभवतीति-हस्ते सम्मातीत्यर्थः । चिति-देहा-ऽऽवासोपसमाधाने कश्चादेः ।। ५. ३. ७१ ॥ चीयत इति-चितिर्यज्ञेऽग्निविशेषः, तदाधारी वा; देहः शरीरम्, आवासो निवासः, उपसमाधानमुपर्यपरि राशीकरणम्, एष्वर्थेषु चिनो वाऽकोंर्घञ् तत्संनियोगे चादेः ककारादेशो भवति। . प्राकायग्नि चिन्वीत । देहे-कायः शरीरम् । आवासे-ऋषिनिकायः । उपसमाधाने-गोमयनिकायः, गोमयपरिकायः । कथं काष्ठनिचयः ? बहुत्वमात्रविवक्षया। एग्विति
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy