________________
पाद-३, सूत्र-३७-४१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः।
[२८३
निघादिशब्दानां निमिताद्यर्थविशेषे कथं वृत्तिः कथमाघारादौ असरूपविधिनाऽनडादयश्च न भवन्ति ? इत्याह-निपातनादेवेति-अन्यथा निमितात्याधानादिषु विशेषार्थप्रतीतिस्तुल्यारोहपरिणाहादिका न स्यात् ।
मूर्ति-निचिताऽभ्रे घनः॥ ५. ३. ३७॥ हन्तेर्मूादिष्वर्थेषु अल् प्रत्ययो घनादेशश्च निपात्यते ।
मूत्तिः काठिन्यम् , अभ्रस्य घनः, काठिन्यमित्यर्थः; एवं-दधिधनः, लोहघनः । निचितं निरन्तरं तत्र, घनाः केशाः, घना वोहयः । अभ्र मेघस्तत्र-धनः । कथं घनं दधि ? गुणशब्दोऽयं तद्योगाद् गुणिन्यपि वर्तते ।।३७॥
व्ययो-द्रोः करणे ॥५. ३.३८ ।।
'वि अयस् द्रु' इत्येतेभ्यः पराद्धन्तेः करणेऽल प्रत्ययो घनादेशश्च निपात्यते । भावस्य कारकान्तरस्य चानुप्रवेशो मा भूदिति करणग्रहणम् ।
विहन्यतेऽनेन तिमिरं-विघनः, विघनेन्दुसमद्युतिः, वयः पक्षिणो हन्यन्तेऽनेनेति वा-विघनः, अयोधनः, द्रुहन्यतेऽनेनेति-द्रुघन: कुठारः । कथं द्रुघण: ? अरोहणादिपाटाण्णत्वे भविष्यति, घणतेर्वाऽजन्तस्य रूपम्, स्त्रियां त्वडेव परत्वात्-विहननी, अयोहननी, द्रहननी ॥३८॥
न्या. स०-व्ययोद्रो:-त्रुघन इति-'हनोघि' २-३-९४ इति व्याप्त्या प्रवृत्तेः 'पूर्वपदस्था' २-३-६४ इति न णत्वम् ।
घणतेर्वेति-घणिः सौत्रः, दूणि दारूणि घणति लिहाद्यच् । स्तम्बाद् घनश्च ।। ५. ३. ३१ ॥ स्तम्बशब्दात पराद्धन्तेरल घ्न-धनादेशौ च निपात्येते करणे।
स्तम्बो हन्यतेऽनेन-स्तम्बघ्नो दण्डः, स्तम्बध्नो यष्टिः, स्त्रियां परत्वादनडेव-स्तम्बहननी यष्टिः । केचित् तु-कप्रत्यये निपातनं कृत्वा स्त्रियामपि स्तम्बध्नेतीच्छन्ति । अन्ये तु-स्तम्बपूर्वस्यापि हन्तेः “सातिहेति०" (५-३-९४) इति निपातनात स्तम्बहेतिरितीच्छन्ति । करण इत्येव-स्तम्बहननं स्तम्बघातः । कथं स्तबध्नीषीका? करणस्यापि कर्तृत्वविवक्षया "अचित्ते टक्” (५-३-६४) इत्यनेन टकि सिद्धम् ॥३६॥
परेघः॥ ५. ३. ४०॥
परिपूर्वाद्धन्तेरल घादेशश्च करणे निपात्यते । परिहण्यतेऽनेनेति-पारिघोऽर्गला, लत्वे पलिघः ॥४०॥
हः समाह्वया-ऽऽहयो चूत-नाम्नोः॥ ५. ३. ४१ ॥