________________
पाद-२, सूत्र-९३ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ २७३
"संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ॥ कार्यानुबन्धोपपदं विज्ञातत्यमुणादिषु ॥१॥"
तथा
"बाहुलकं प्रकृतेस्तनुदृष्टे: प्रायसमुच्चयनादपि तेषाम् । कार्यसशेषविधेश्च तदूह्य, नैगम-रूढिभवं हि सुसाधु ।।२।। नाम च धातुजमाह निरुक्ते, व्याकरणे शकटस्य च तोकम् । यन्न पदार्थविशेषसमुत्थं, प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥३॥ इति ॥९३॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिबहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्ती पञ्चमस्याध्यायस्य द्वितीयः पादः ।
अकृत्वाऽऽसननिर्वन्धमभित्त्वा पावनी गतिम् ।
सिद्धराजः परपुरप्रवेशवशितां ययौ ॥१॥ न्या० स०-उणादयः-प्रायसमुच्चयनादपोति-प्रायेण अकृत्स्न बहुत्वेन समुच्चयनं राशीकरणम् । कार्यसशेष विधेश्चेति-काक इत्यादिसिद्ध्यर्थं सूत्रान्तरं न प्रारेभे इति सविशेषविधित्वम् ।
इत्याचार्यश्री सिद्धहेमचन्द्राभिधानस्वोपज्ञ-शब्दानुशासनबृहवृत्तेः पञ्चमाध्यायस्य न्यासतः द्वितीयः पादः समाप्तः।