________________
२६४ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-५०-५४
न्मत्वर्थीयेन सिद्धयति तृन्बाधनार्थं तु वचनम् । अष्टकादिति किम् ? असिता। णकारो वृद्धयर्थः । चकार उत्तरत्र कत्व-गत्वार्थ: । अभिधानात् घिणन् अकर्मकेभ्यस्तेनेह न भवतिअरण्यं भ्रमिता, सकर्मकेभ्यस्तु यथादर्शनं दर्शयिष्यामः ।।४९।।
युज-भुज-भज-त्यज रञ्ज-द्विष-दुष-द्रह-दुहा-ऽभ्याहनः॥ ५.२.५०॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः घिनण् भवति ।
युज्यते युनक्ति वा इत्येवंशीलो-योगी। भुङ्क्ते भुनक्ति भुजतीति वा-भोगी, भागी, कल्याणभागी, त्यागी, प्राणत्यागी, रागो "अघिनोश्च रञ्जः" (४-२-६०) इति न लोप: । द्वेषी, दोषी, द्रोही, दोही, अभ्याघाती। अकर्मकादित्येव ? गां दोग्धा, शत्रूनभ्याहन्ता ।।५०॥
आङः क्रीड-मुषः॥ ५.२.५१॥ शीलादौ सत्यर्थे वर्तमानाभ्यामाङः पराम्यामाभ्यां घिनण भवति ।
प्राक्रीडत इत्येवंशीलः-आक्रोडी, प्रामोषी । शीलादिप्रत्ययान्ताः प्रायेण रूढिप्रकारा यथादर्शनं प्रयुज्यन्त इति उपसर्गान्तराधिक्ये न भवति । एवमुत्तरत्रापि । ५१।।
न्या० स० - आङः क्रीडमुषः-शीलाविप्रत्ययान्ता इति-ननु पूर्वे आङमाङ यसाङमुषाक्रोडेति पठित्वा घिनण्माहुस्तेषां विशिष्टस्वरूपोपादानान् नोपसर्गान्तराधिक्ये भवति । इह तु आङः पराभ्यामित्युच्यमाने उपात्तोपसर्मात् पूर्वमन्यस्मिन्नुपसर्गे सत्यपि व्यवधानाभावात् ततः परत्वस्य संभवादुपसर्गान्तराधिक्येऽपि भवतीत्याह-शीलादिप्रत्ययान्ता इत्यादि-शोलधर्मसाधुषु अर्थेषु ये प्रत्ययास्तदन्ता इमे प्रायेण रूढिशब्दप्रकारा यथा रूढिशब्दा रूढिविषय एव प्रवर्त्तन्ते तत्र च नियतरूपस्तथा इमेऽपि ये यथा प्रयोगे दृश्यन्ते यद्यदुपसर्गाः सोपसर्गा अनुपसर्गा वा ते तथैव प्रयोगानुसारेण प्रयोक्तव्याः, तथाहि-कामुक इति अनुपसर्ग एव प्रयुज्यते न सोपसर्गः, एवमागामुकः इति आङ पसर्गपूर्व एव, न त्वनुपसर्गोऽन्योपसर्गपूर्वो वा इत्येवमन्यदपि द्रष्टव्यमिति नोपसर्गान्तराधिक्ये भवति ।
प्राच यम-यसः॥५, २.५२ ॥ शीलादो सत्यर्थे वर्तमानाभ्यां प्रादाङश्च पराभ्यामाभ्यां घिनण भवति । प्रयच्छतीत्येवंशील:-प्रयामी, प्रायामी; प्रयासी, आयासी ॥५२।। न्या० स०-प्राच्च यम-यथासंख्यं यद्यभिप्रेतं स्यात्तदा प्राङ इति क्रियेत । मथ-लपः॥ ५. २.५३ ॥
प्रात् पराभ्यामाभ्यां शीलादौ सत्यर्थे वर्तमानाभ्यां घिनण् भवति । प्रमथतीत्येवंशीलः-प्रमाथी, प्रलापी ॥५३॥
वेश्वः द्रोः ।। ५. २. ५४ ॥