________________
२६२ ]
बृहद्वृत्ति लघुन्याससंवलिते
[पाद-२, सूत्र-४३-४४
द्वारेण न सिध्यतीतीहोपादानम् । जवनः । सृ-सरणः, गृधू-गर्धनः, ज्वल-ज्वलन:, शुचशोचनः, लष-अभिलषणः, पत-पतनः। पदेरिदित्त्वादुत्तरेणैव सिद्धे सकर्मकार्य वचनम् । अर्थस्य पदनः ग्रन्थस्य पदनः; पदनः क्षेत्राणाम् ।
उत्तरत्र सकर्मकेभ्योऽपि विधिरित्येकेषां दर्शनम्, तथा चोकरणा बाधितोऽप्यसरूपत्वात् पदेरन: प्रत्ययो भविष्यतीति चेत् ? एवं तहि शीलादिप्रत्ययेष्वसरूपत्वेन शोलादिप्रत्ययो न भवतीति ज्ञापनार्थ पदिग्रहणम् , तेन-चिकोर्षिता कटम् , अलंकर्ता कन्यामिति न भवति । कथं तहि 'गन्ता खेलः, आगामुकः; भविता, भावुकः; जोगरिता, जागरूकः, विकत्थनः, विकत्थी; भासनं, भासुरम् ; वर्धनः, वधिष्णु ; अपलाषुकः, अपलाषी; कम्पना कम्प्रा शाखा; कमना कामुका युवतिः ?' क्वचित समावेशोऽपि भवति । एतदर्थमेव च "न ण्यादि०" (५-२-४५) सूत्रे दीपिग्रहणम् , अन्यथा रेणाऽनोऽस्य बाध्येतेति तदनर्थक स्यात । अनस्यैव विषये समावेश इत्येके ||४२।।
न्या० स०-भूषाकोधार्थ-वेगाख्ये इति-स्थिति-स्थापक भावनादिभेदात् त्रिधा संस्कारः, वेगाख्यस्तु चलनस्य हेतुरेव न तु चलनमित्यर्थः। अपलाषुक इति-निरुपसर्गस्य उकणश्चरितार्थत्वमतो न समानविषयता।
चाल शब्दार्थादकर्मकात् ॥ ५. २. ४३ ॥
चलनार्थाच्छब्दार्थाच्च धातोः शीलादौ सत्यर्थे वर्तमानादकर्मकादविवक्षितकर्मकाद वा परोऽनः प्रत्ययो भवति ।
चलतीत्येवंशील:-चलन:, कम्पनः, चोपनः, चेष्टनः । शब्दयतीत्येबंशील:-शब्दनः, रवणः, आक्रोशनः । अकर्मकादिति किम् ? पठिता विधाम् ।।४३।।
इडितो व्यञ्जनाद्यन्तात् ।। ५. २. ४४ ॥
व्यञ्जनमादिरन्तश्च यस्य सव्यञ्जनाद्यन्तः । इदनुबन्धात् ङानुबन्धाच्च व्यञ्जनाद्यन्ताद् धातोः शीलादौ सत्यर्थे वर्तमानादनः प्रत्ययो भवति ।
इदित्, स्पधि-स्पर्धनः। डित, वृतूङ्-वर्तनः, वृधृङ-वर्धनः । रतश्च विषय एव लोपे व्यञ्जनान्तत्वात इहापि भवति-चितिण-चेतनः, गुपि-जुगुप्सनः, मानि-मीमांसनः । इडित इति किम् ? स्वप्ता । व्यञ्जनाद्यन्तादिति किम् ? एधिता, शयिता । अकर्मकादित्येव ? वासिता वस्त्रम्, सेविता विषयान् । कथमुत्कण्ठावर्धनैरिति ? नात्र कर्मषष्ठीसमासो वृधेरकर्मकत्वात्, किन्तु तृतीयासमासः, उत्कण्ठया वर्धनैः, वर्धमानोत्कण्ठाशील. रिति यावत् । अन्ये त्वत्कर्मकादेवेति नेच्छन्ति ॥४४॥
न्या० स०-इङितो-इहापि भवतीति-अन्यथाऽनेक स्वरात् 'निन्दहिंस' ५-२-६८ इति णकः स्यात् । जुगुप्सन इति-नन्वत्राकारस्य विषयेऽपि लोपे सन्नन्तस्य डिदित्त्वाभावादनो न प्राप्नोति ? न, अत्र गुपेः स्वार्थे एव सन् ततश्च गुपिलक्षणे * अवयवे कृतं लिङ्ग समुदायस्याऽपि विशेषकम् * इति न्यायात् गुपिरेव द्रष्टव्यः ।