________________
२५४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद २, सूत्र-१९-२०
'न नु' इत्येतयोः शब्दयोरुपपदयोः पृष्टोक्तौ भूतेऽर्थे वर्तमानाद् धातोर्वा वर्तमाना विभक्तिर्भवति, सा च सद्वत् ।
किमकार्षीः कटं चैत्र ? न करोमि भोः! न कुर्वन्तं न कुर्वाणं पश्य माम् ; नाकार्षम् । कस्तत्रावोचत् ? अहं नु ब्रवीमि, ब्रुवन्तं ब्रुवाणं नु मां पश्य; अहं न्ववोचम् । १८
सति ॥ ५. २. ११॥
सन्-विद्यमानो वर्तमान इत्यर्थः, स च प्रारब्धापरिसमाप्त: क्रियाप्रबन्धः, सत्यर्थे वर्तमानाद् धातोर्वर्तमाना विभक्तिर्भवति ।
भवति, अस्ति, घटं करोति, प्रोदनं पचति । 'जीवं न मारयति, मांसं न भक्षयति' इत्यादौ नियमः प्रारब्धोऽसमाप्तश्च प्रतीयते । 'इहाऽधीमहे, इह कुमाराः कीडन्ति' इत्यादौ क्रियान्तरव्यवधानेऽप्यध्ययनादिक्रियायाः प्रारम्भापरिसमाप्तिरस्त्येव । 'चैत्रो भुङ्क्ते' इत्यादावपि हि क्रियान्तरव्यवधानमशक्यपरिहारम्, सोऽपि झवश्यं भुजानो हसति जल्पति पानीयं वा पिबतीति । 'तिष्ठन्ति पर्वताः, स्यन्दन्ते नद्यः' इत्यादौ तु स्फुटव प्रारम्भापरिसमाप्तिः ।
कथं तहि 'तस्थुः स्थास्यन्ति गिरयः' इति ? भूत-भाविनां भरत-कल्किप्रभृतीनां राजां याः क्रिय स्तदवच्छेदेन पर्वतादिक्रियाणामतीतत्वा-ऽनागतत्वोपपत्तेन भूत-भाविप्रत्ययानुपपत्तिदोषः । एवं च विद्यानकर्तृ केभ्योऽस्त्यर्थेभ्यो धातुभ्यः सर्वा विभक्तयो भवन्तिकूपोऽस्ति, कूपो भविष्यति, कूपो भविता, कूपोऽभूत, कूप आसीत्, कूपो बभूव ।।१६।।।
न्या० स०-सति-प्रारब्धापरिसमाप्त इति-पूर्व प्रारब्धः साक्षात् साध्यत्वेन प्रस्तुतो न च परिसमाप्तः फलस्यानिष्पत्तेः, फलाथं हि उपादीयमानायाः क्रियायाः फलेऽधिगते तस्याः परिसमाप्तिर्भवति, एवं च महताकालेन साध्यते, या क्रिया तस्या अन्तराले क्रियान्तरविच्छिन्नाया अपि प्रारब्धत्वादसमाप्तत्वाच्च वर्तमानत्वमस्त्येव ।
जीवं न मारयतीति-नन्वत्र निषेधस्याभावरूपत्वात् अभावस्य च प्रारम्भापरिसमाप्ती न घटेते इत्याह-प्रारब्ध इत्यादि-यावत् क्रिया प्रारब्धा न समर्थ्यते तावत्तस्याः क्रियान्तरैर्व्यवहितायाश्चाप्यसमाप्तिः।
तदवच्छेदेनेति-तविशिष्टत्वेन तयोः क्रिययोविभागो भूतो भविष्यन् वा भवतीत्यर्थः । एवं चेति-पूर्वोक्तेनैव न्यायेन भूतभविष्यत्-त्रिययोरपेक्षयेत्यर्थः ।
शत्रानशावेष्यति तु सस्यो । ५. २. २०॥
सत्यर्थे वर्तमानाद् धातोः शत्रानशौ प्रत्ययो भवत, एष्यति तु-एष्यन्मात्रे भविष्यन्तीविषयेऽर्थे सस्यौ-स्यप्रत्ययसहितौ शत्रानशौ भवतः । स्योऽपि प्रत्ययत्वाद् धातोरेव ।
यान, यान्तौ, यान्तः, शयानः शयानौ, शयाना:; निरस्यन् , निरस्यमानः; पचन् , पचमानः । एकविषयत्वाद् वर्तमानाऽपि -याति, यातः, यान्ति, एवं सर्वत्र । तथा-सन् ,