________________
२५२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-१३-१५
ह-शश्वद-युगान्तःप्रच्छये ह्यस्तनी च ॥ ५. २. १३ ॥
पञ्चपर्ष युगं, तस्यान्तर्मध्यं, तत्र पृच्छचते यः स युगान्तःप्रच्छयः । हे शश्वति च प्रयुज्यमाने, युगान्तःप्रष्टव्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद् धातोशस्तनी परोक्षा च विभक्ती भवतः ।
इति हाऽकरोत् , इति ह चकार, शश्वदकरोत् , शश्वच्चकार । प्रच्छये -किमगच्छस्त्वं मथुराम् ? कि जगन्थ त्वं मथुराम् ? ह-शश्वद्युगान्तःप्रच्छय' इति किम् ? जघान कसं किल वासुदेवः। वेत्येव कृते भूतानद्यतनमात्र भाविन्या शस्तन्याः पक्षे सिद्धौ शस्तनोविधानं स्मत्यर्थयोगेऽपि हस्तन्येव यथा स्यान्न भविष्यन्तीत्येवमर्थम् , तेन स्मरसि मित्र! कश्मीरेष्वितिहाध्यैमहि, अभिजानासि चैत्र ! शश्वदध्यमहि, इत्यादि सिद्धम् । ' क्रियान्तराकाङ्क्षायां तु ह-शश्वत्प्रयोग एव न संभवतीति नोदाह्रियते ॥१३॥
न्या० स०-हशश्वद्यु-इतिहाकरोदिति-निपातसमुदाय: प्रवादपारंपर्य इतिहाशब्दो वर्त्तते, यद्वा एतत् ह इति वाक्यालंकारे । प्रयोग एव न संभवतीति-नियातानां यथादर्शनं प्रयोगात् ।
अविवक्षिते ॥ ५. २. १४ ॥
भूतानद्यतने परोक्षे परोसत्वेनाविवक्षितेऽर्थे वर्तमानाद् धातोय स्तनी विभक्तिभंवतिः।
अभवत् सगरो राजा, प्रहन कंसं वासुदेवः । एवं च परोक्षानघतने विवक्षावशादद्यतनी-शस्तनी-परोक्षास्तिस्रो विभक्तयः सिद्धाः। तथा च-"अन्वनेषीत् ततो वाली न्यक्षिपच्चाङ्गदं सुग्रीवं प्रोचे सद्भावमागतः ।" 'राक्षसेन्द्रस्ततोऽभषोत् सैन्यं समस्तं सोऽयुयुत्समल स्वयं युयुत्सयांच' । तथा
"अभवस्तापसाः केचित् पाण्डुपत्रफलाशिनः ।
पारिवाज्यं तदाऽवत्त मरीचिश्न तृषावितः ।" इति ॥१४॥ न्या० स०-अविवक्षिते-तिस्रोऽपि विभक्तय इति-परोक्षत्वेन वा विवक्षिते विशेषाविवक्षा' ५-२-५ इत्यवतनी, परोक्षत्वेन त्वऽविवक्षितेऽनेन ह्यस्तनी, उभयसद्भावविवक्षायां तु 'परोक्षे' ५-२-१२ इत्यनेन परोक्षा।
वाऽद्यतनी पुरादौ ॥ ५. २. १५ ॥
'परोक्षे' इति निवृत्तम् , भूतानद्यतने परोक्षे चापरोक्षे चार्थे वर्तमानाद् धातोः 'परा' इत्यादावुपपदेऽद्यतनी विभक्तिर्भवति वा । अपरोक्षे शस्तन्याः परोक्षे तु परोक्षाया अपवादः । वावचनात् पक्षे यथाप्राप्ति ते अपि भवतः ।
___ अवात्सुरिह पुरा छात्राः, अवसनिह पुरा छात्राः, ऊषुरिह पुरा छात्राः, तदाऽभाषिष्ट राघवः, तदाऽभाषत राघवः, बभाष राघवस्तदा। भूतानद्यतनपरोक्षेऽद्यतनों नेच्छ