________________
२३८ ]
बृहद्वृत्ति लघुन्याससंवलिते [पाद-१, सूत्र-१४०-१४४
भिक्षाचरी। सेनां चरति-परीक्षते-सेनाचरस्तापसव्यञ्जनः, सेनया वा चरति-सेनाचरः । आदाय-गृहीत्वा चरति-प्रादायचरः, आदानं कृत्वा चरतीत्यर्थः, किमादायेत्यविवव । एभ्य इति किम् ? कुरूश्चरति ॥१३९॥
न्या० स०-भिक्षासे०-तापसव्यञ्जन इति-तपोऽस्यास्ति ज्योत्स्नादित्वादण् तापसः, तस्य व्यञ्जनं चिह्न यस्य, यद्वा तपस इदं तापसं तत् व्यञ्जनं यस्य, यद्वा तापस इति व्यज्यते प्रकटीक्रियते ज्ञायते तापसव्यञ्जनः, यद्वा तापसे व्यजनं व्याजो यस्येति ।
पुरो-ऽग्रतोऽग्रे सर्तेः ॥ ५. १. १४०॥
एभ्यो नामभ्यः परात सर्तेष्टो भवति । पुरः सरति-पुरःसरः, पुरः-सरी । अग्रतः सरति-अग्रतःसरः, आद्यादित्वात् तस् । अग्ने सरति-अग्रेसरः. सप्तम्यलुप, एकारान्तमव्ययं वा; सूत्रनिपातनाद् वैकारः, तत्राग्रं सरति अग्रेण वा सरति-अग्नेसर इत्यपि भवति ।। १४०।
पूर्वात् कर्तुः ॥ ५. १. १४१ ॥
पूर्वशब्दात् कर्तृवाचिनः परात सरतेष्टो भवति । पूर्वः सरति-पूर्वसरः, पूर्वो भूत्वा सरतीत्यर्थः, कस्मात् पूर्व इति अविवक्षव; पूर्वसरी। कर्तु रिति किम् ? पूर्व देशं सरतिपूर्वसारः ॥१४१॥
___ न्या० स०-पूर्वात्कर्तु: अविवक्षवेति-तेन सापेक्षत्वात् समासो न प्राप्नोतीति न वाच्यम् ।
स्था-पा-स्ना-त्रः कः ।। ५. १. १४२ ॥
नाम्नः परेभ्य एभ्यः कः प्रत्ययो भवति । समे तिष्ठति-समस्थः, विषमस्थः, कटस्थः, कपित्थः, दधित्थः, महित्थः, अश्वस्थः, कुलत्थः । द्विपः, पादपः, कच्छपः, अनेकपः, कटाहपः । नदीष्णः । आतपत्रम्, धर्मत्रम् । परत्वादयं "शमो नाम्न्यः " (५-१-१३४) इत्यप्रत्ययं बाधते शंस्थो नाम कश्चित् । 'शंस्थाः' इत्यसरूपत्वात् क्विप् ।।१४२॥ शोकापनुद-तुन्दपरिमृज-स्तम्बेरम-कर्णेजपं-प्रिया-ऽलस-हस्ति
सूचके । ५. १. १४३ ॥ शोकापनुदादयः शब्दा यथासंख्यं प्रियादिध्वर्थेषु कप्रत्ययान्ता निपात्यन्ते । शोकमपनदति-शोकापनुदः प्रियः, पुत्रादिरानन्दकर एवमुच्यते । तुन्दं परिमाष्टि-तुन्दपरिमृजोऽलसः. स्तम्बे रमते-स्तम्बेरमो इस्ती. कर्णे जपति-कणेजपः सचकः । एग्विति किम् ? शोकापनोदो धर्माचार्यः, तुन्दपरिमार्ज प्रातुरः, स्तम्बे रन्ता पक्षी, कर्णे जपिता मन्त्री ।४३।
मूलविभुजादयः ।। ५. १. १४४॥