________________
पाद-१, सूत्र-५५-५८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२२१
नाम्युपान्तेभ्यो धातुभ्यः 'प्री क ग जा' इत्येतेभ्यश्च कः प्रत्ययो भवति, ककारः कित्कार्यार्थः।
विक्षिपः, विलिखः, बुध, युधः, कृशः, वितृदः । प्रीणातीति-प्रियः, किरतीतिकिरः, उत्किरः, गिलतीति-गिलः, निगिलः, जानातीति-ज्ञः। काष्ठभेद इति परत्वादण् ॥५४॥
न्या० स०-नाम्युपान्त्यः-युध इति-युध्यतेः योधवाचकस्तु णिगि योधयतीति अचि। गिलः, निगिल इति-'नवा स्वरे' २-३-१०२ इत्यत्र व्यवस्थितविभाषाश्रयणान्नित्यं लत्वम्
गेहे ग्रहः ॥५. १.५५॥ .
गेहेऽभिधेये ग्रहेः को भवति । गृहम् , गृहाणि ; गृहाः । पुसि बहुवचनान्त एव । उपचाराद् द्वारा गृहाः ।।५।।
न्या० स०-प्रेहे ग्र-बहुवचनान्त एवेति-दुर्गस्त्वेकवचनान्तमेवाह । उपसर्गादातो डोऽश्यः॥ ५. १. ५६ ॥ उपसर्गात् परात श्यजितादाकारन्तात् धातोर्डः प्रत्ययो भवति ।
आह्वयतीति-आह्वः, प्रह्वः, संव्यः, परिव्यः, प्रज्य:, अनुज्यः, प्रस्थः, सुग्लः, सुम्लः, सुत्रः, व्यालः, सुरः । केनैव सिद्ध डविधानं वृनिषेधार्थम् । उपसर्गादिति किम् ? -दायः, धायः । आत इति किम् ? आहर्ता । अश्य इति किम् ? णे-अवश्यायः, प्रतिश्यायः । के पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् के इति णो बाध्यते नाण, तेन 'गोसंदाय वडवासंदाय' इत्यणेव ।। ५६।।
व्याघ्रा-ऽऽधे प्राणि-नसोः॥ ५. १. ५७ ॥
'व्याघ्र प्राघ्रा' इत्येतो शब्दो जिघ्रतेर्यथासंख्यं प्राणिनि नासिकायां चार्थे डप्रत्ययान्तौ निपात्येते ।
विविधम् आजिघ्रति-व्याघ्रः प्राणी,आजिघ्रति-आघ्रा नासिका । शस्यापवादः ।५७।
न्या० स०-व्याघ्राघ्र-व्याघ्र इति-अनेकार्थत्वाच्छिङ्घनपूर्वके हिंसने वर्त्तते । यत्क्षीरः विविधमाजिघ्रन् हिनस्तीति ।
घ्रा-ध्मा-पा-ट्धे-दृशः शः ॥ ५. १.५८॥ एभ्यः शः प्रत्ययो भवति ।
घ्रा-जिघ्रतीति-जिघ्रः, विजिघ्रः, उज्जिनः। ध्मा-धमः, विधमः, उद्धमः । घ्रादिसाहचर्यात 'पा' इति पिबतेर्ग्रहणं न पाते:-पिबः, निपिबः, उत्पिबः, पायतेस्तु लाक्षणिकत्वान्न भवति । धे-षयः विधयः, उद्धयः । दृशं -पश्यः, विपश्यः, उत्पश्यः । धेष्टकारो ड्यर्थः-उद्धयी, विधयी । उपसर्गादेवेच्छन्त्यन्ये । शकारः शित्कार्यार्थः ॥५॥