________________
पाद-१, सूत्र-४६-५१ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२१९
समो वा ॥ ५. १. ४६ ॥ संपूर्वाद् भृगः क्यप् वा भवति । संभृत्यः, संभार्यः ।।४६।। ते कृत्याः ॥ ५. १.४७॥
ते-'ध्यण तव्य अनीय य क्यप्' इत्येते प्रत्ययाः कृत्यसंज्ञा भवन्ति । कृत्यप्रदेशा:"तत् साप्याऽनाप्याव कर्म-भावे कृत्य-क्त-खलाश्च' (३-३-२१) इत्यादयः ॥४७॥
णक-तृचौ ॥ ५. १.४८॥ धातोः परौ णक-तृचौ प्रत्ययो भवतः, कृत्त्वात् कर्तरि ।
पाचकः, पक्ता; पाठकः, पठिता । णकारो वृद्धयर्थः, चकारः "त्रन्त्यस्वरादेः" (७-४-४३) इत्यत्र सामान्यग्रहणाविधातार्थः ।।४८॥
न्या० स०-णकतृ-सामान्यग्रहणाविघातार्थ इति-अन्यथा * निरनुबन्धा० * इति न्यायात् तृच् एव ग्रहः स्यात् न तु तृनः ।
अच् ॥ ५. १.४१ ॥
धातोरच प्रत्ययो भवति, कृत्त्वात् कर्तरि । करः, हरः, पचः, पठः उद्वहः । चकारः "अचि" (३-४-१५) इत्यत्र विशेषणार्थः ॥४६॥
लिहादिभ्यः ॥ ५. १.५० ॥ लिहादिभ्यो धातुभ्योऽच प्रत्ययो भवति, पृथग्योगो बाधकबाधनार्थः ।
लेहः, शेषः, सेवः, देवः, मेथः, मेषः, मेघः, देहः, प्ररोहः, न्यग्रोधः, कोपः, गोपः, सर्पः, नर्तः, दर्शः, एषु नाम्युपान्त्यलक्षणं कं दृशेस्तु वा शं बाधते । 'अनिमिष' इति बहुलाधिकारात कोऽपि भवति । श्वपचः, पारापतः, कद्ववः, यद्वदः, अरीन् व्रणयतीत्यरिप्रणा शक्तिः, जारभरा, कन्यावरः, रघूद्वहः, रसावहः, एवणं बाषते । बहुवचनमाकृतिगणार्थम् । नदी, भषी, प्लवी, गरी, चरी, तरी, दरी, स्तरी, सूदी, देवी, सेवी, चोरी, गोही' एतेऽजन्ता गौरादौ द्रष्टव्याः ॥५०॥
न्या० स०-लिहादिभ्यः पृथग्योग इति-पूर्वेण सिद्धेऽस्यारम्भादित्यर्थः। वा शं बाधते इति-यदि हि नित्यं लिहाद्यऽच् स्यात्तदा दृशः शविधानमऽनर्थकं स्यादिति । कद्वद इति-कुत्सितं वदति 'रथवदे' ३.-२-१३१ कदादेशः।
आकृतिग्रहणार्थमिति-तेन वशा, अमर, क्षम, रण, श्लेष, अजगर इत्यादयोऽदर्शिता अपि ज्ञेयाः । गौरादौ द्रष्टव्या इति-अन्यै नदीइत्यादीनां ड्यर्थं टित्त्वं कृतं तत् स्वमते कथम् ? इत्याह-नदीत्यादीनां सामान्योऽनेन वाऽच् भवतु, भरतस्तु गौरादौ ।
ब्रुवः॥ ५. १.५१॥