________________
पाद-१, सूत्र-३६-४२ ] श्री सिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ २१७
न्या० स०-खेयमृषो०-निवृत्तमिति-निपातनस्येष्टविषयत्वात् । निखेयमिति-द्योतकत्वात् न्यादिप्रयोगेऽपि भवति । कुप्य-भिद्योद्ध्य सिध्य-तिष्य-पुष्य-युग्या-ऽऽज्य-सूर्यं नाम्नि
॥५. १. ३१ ॥ एते क्यबन्ताः संज्ञायां निपात्यन्ते । गुपेः क्यप आदिकत्वं च धनेऽर्थे । गोप्यते तदिति-कुप्यं धनम्, गोप्यमन्यत् । भिदेरुज्झेश्च नदेऽभिधेये क्यप् उज्झेर्धत्वं च । भिन्नत्ति कूलानि इति-भिद्यः, उज्झत्युदकम्-उद्ध्यः, अन्यत्र-भेत्ता, उज्झिता।
सिधि-विषि-पुषिभ्यो नक्षत्रेऽभिधेये क्या त्विषेर्वलोपश्च । सिध्यन्ति त्वेषन्ति पुष्यन्ति अस्मिन् कार्याणीति सिध्यः, तिष्यः, पुष्यः, अन्यत्र-सेधनः, त्वेषणः, पोषणः । युजेः क्यप् गत्वं च वाहनेऽभिधेये । युजन्ति तदिति-युग्यं वाहनं गजाश्वादि, योग्यमन्यत् । आङ् पूर्वाद घृतेऽर्थे क्यप् । आञ्जन्त्यनेनेति-आज्यं घृतम् , आञ्जनमन्यत् । सर्तेः क्यप् ऋकारस्योर, सुवतेर्वा क्यप् रान्तश्च देवतायाम् । सरति सुवति वा कमसु लोकानितिसुर्यो देवता । बहुलाधिकाराग्निपातनसामर्थ्याद् वाऽनुक्तोऽपि निपातनेषु कारकविशेषो गम्यते ।।३९।।
दृ-वृग-स्तु-जुषेति-शासः ।। ५.१.४०॥ एभ्यः क्यप् भवति ।
दृ-आवृत्यः । वृग-प्रावृत्यः । वृङस्तु वार्या-ऋत्विजः । स्तु-स्तुत्यः, अवश्यस्तुत्यः । जुष-जुष्यः । एतीति इणिकोहणम् । इत्यः, अधोत्यः । प्रयतेरिङश्च न भवतिउपेयम्, अध्येयम् । इकोऽप्यध्येयमित्येके । ईयतेरप्युपेयमिति भवति । शास्-शिष्या, आशासेस्तु "आशास्यमन्यत पुनरुक्तभूतम्" (रघुवंशे) इति । कथम् “अनिवार्यो गजैरन्यः स्वभाव इव देहिनाम् ।" इति, संभक्तेरन्यत्रापि वृङ् ॥४०॥
न्या० स०-दृवृग्-इणिकोग्रहणमिति-इङस्तु परस्मैपद्यादादिकसाहचर्यात् निरासः । आशास्यमन्यदिति-आङ: क्वावेवेति नियमान्न शिषादेशः ।
ऋदुपान्त्यादपि-चुदृचः ॥ ५. १.४१ ॥ ऋकारोपान्त्याद् धातोः कृपि-चूति-ऋचिजितात् क्यप् भवति ।
वृत्यम्, वृध्यम्, गृध्यम्, शृध्यम् । अकृपि च इति किम् ? कल्प्यम्, चर्त्यम्, अय॑म् ।।४१॥
कु-वृषि-मृजि-शंसि-गुहि-दुहि-जपो वा ॥ ५. १. ४२ ॥ एभ्य क्यप् वा भवति। कृत्यम् , कार्यम् , वृष्यम् , वर्ण्यम् , मृज्यम् , मार्यम् , शस्यम् , शंस्यम् , गुह्यम्,