________________
पाद-१, सूत्र-३०-३३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ २१५
कथमसिना वध्योऽसिवध्यः, मुशलवध्यः ? "न जनबधः" ( ४-३-५४ ) इति वद्धिप्रतिषेधे ध्यणा भविष्यति ॥२९॥
न्या० स०-शकितकि त्यजयप्रवच इति प्रतिषेधादिति-अन्यथा घ्यणप्रत्ययाऽभावात् प्राप्तिरेव नास्ति।
यम-मद-गदोऽनुपसर्गात् ॥ ५. १. ३०॥ उपसर्गरहितेभ्य एभ्यो यः प्रत्ययो भवति । यम्यम्, मद्यम, गद्यम् ।
अनुपसर्गादिति किम् ? आयाम्यम् , प्रमाद्यम् , निगाधम् । पवर्गान्तस्वाद सिद्धे यमो नियमाथं वचनम - अनुपसर्गादेव यथा स्यात् । बहुलवचनान्माद्यत्यनेनेति-मद्यं करणेऽपि, नियम्यमिति च सोपसर्गादिति ॥३०॥
न्या० स०-यममद०-अनुपसर्गादेवेति-अनुपसर्गाद्यम एवेति विपरीतनियमस्तु न 'न शकितकि' ५-१-२६ इत्यत्र पवर्गग्रहणात् ।
चरेराङस्त्वगुरौ ॥ ५. १. ३१ ॥
अनुपसर्गाच्चरेराङपूर्वात् त्वगुरावर्थे यो भवति । चयं भवता, चर्यो देशः, प्राचर्य भवता, प्राचर्यो देशः । आङस्त्विति किम् ? अभिचार्यम् । अगुराविति किम् ? आचार्यो गुरुः ॥३१॥
वर्योपसर्या-ऽवद्य-पण्यमुपेयर्तुमती-गर्य-विक्रये ॥ ५. १. ३२ ॥
वर्यावयः शब्दा उपेयाविष्वर्थेषु यथासंख्यं यान्ता निपात्यन्ते । वृणातेर्ये-वर्या, उपेया चेद् भवति । शतेन वर्या, सहस्रण वर्या कन्या, संभक्तव्या मैत्रीमापादनीयेति यावत् ; वृत्याऽन्या, वृणोतेः क्या स्त्रीलिङ्गनिर्देशादिह न भवति-वार्या ऋत्विजः । अन्यस्तु"सुग्रीवो नाम बर्योऽसौ भवता चारुविक्रमः" (भट्टिप्रयोगः) इति प्रयोगदर्शनात् पुंलिङ्गेऽपीच्छति, सामान्यनिर्देशात् तदपि संगृहीतम्, शतेन वर्यः, सहस्रेण वर्यः । उपपूर्वात् सर्तेर्येउपसर्या, ऋतुमती चेत् । उपसर्या गौः, गर्भग्रहणे प्राप्तकालेत्यर्थः, अन्यत्र उपसार्या शरदि मथुरा। नपूर्वाद् वदेर्ये-प्रवचं, गां चेत् । अवध पापम् , अवद्या हिंसा, गोत्यर्थः, अनुधमन्यत् ।
कथमवाद्या ? वनिरुपपदात् घ्यण, पश्चान्नसमासः । पणेर्येपण्यं, विक्रेयं चेत् । पण्यः कम्बलः, पण्या गौः, विक्रयेत्यर्थः, अन्यत्र पाण्यः साधुः ।।३२।।
न्या० स०-वर्योप०-शतेन वर्य इति-यस्तु वरेण्यपर्यायः तस्य वरण इत्यस्मात् णिजन्तात् सिद्धिः । अनुधमऽन्यदिति- यत्तु अनूद्यमिति तदऽनुवदनं अनूत् , अनूदि साधु 'तत्र साधौ' ७-१-१५ इति यः ।
स्वामि-वैश्येयः॥ ५. १. ३३ ॥ अर्तेः स्वामिनि वैश्ये चाभिधेये यो निपात्यते । प्रर्यः स्वामी, अर्यो बेश्यः ।