________________
पाद-१, सूत्र-२१-२४ ] श्रोसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ २१३
प्राङ्पूर्वाभ्यां सुनोति-नमिभ्यां यौत्यादिभ्यश्च धातुभ्यो ध्यण भवति, यापवादः । याव्यम् , वाप्यम् , राप्यम्, लाप्यम् , अभिलाप्यम् , अपनाप्यम् , डेप्यम् । दभिः सौत्रो बन्धने वर्तते, दाभ्यम्, अवदाभ्यम , आचाम्यम् , पानाम्यम् , नमिरन्तभूतण्यर्थः सकर्मकः, प्रकर्मका अपि हि धातवो व्यर्थ वर्तमानाः सकर्मका भवन्ति, यथानेमि नमन्ति ।
डिपेः कुटादित्वाद् ये गुणो न लभ्यत इति घ्यण् विधीयते । आनमर्नेच्छन्त्येके ॥२०॥
न्या० स०-प्रासुयु०-दभिः सौत्र इति-दम्भेस्तु दम्भ्यमिति । आचाम्यमिति-केवलस्य 'मोऽकमि' ४-३-५५ इति वृद्धिप्रतिषेधे घ्यणि ये वा न विशेष इति सोपसर्गस्योदाहरणं, ननु डिपेः 'शकित कि' ५-१-२९ इति यप्रत्ययेऽपि डेप्यमिति भविष्यति किमत्र ग्रहणेन ? इत्याह-डिपे: कुटादीत्यादि।
वाऽऽधारेऽमावस्या ॥ ५. १. २१ ॥ • अमापूर्वाद् वसतेराधारे ध्यण प्रत्ययो धातोः पक्षे ह्रस्वश्च निपात्यते । प्रमाशब्दः सहार्थः, सह वसतोऽस्यां सूर्या-चन्द्रमसाविति-अमावस्या अमावास्या वा रूढया तिथिविशेषः । पक्षे यमकृत्वा हस्वनिपातनम् "अश्चामावास्यायाः” ( ६-३-१०३ ) इत्यत्रकेदशविकृतस्यानन्यत्वादमावास्याशब्देन प्रमावस्याशब्दस्यापि
॥२१॥ न्या० स०-वाधारेऽमा-पक्षे यमकृत्वेति-वाधारेमावसो य इति क्रियतां ध्यण तु वाग्रहणादाधारेऽपि भविष्यतीति भावः । अमावस्याशब्दस्यापीति-अन्यथा यध्यणन्तयोरऽत्यन्तभेदात् यान्तस्य ग्रहणं न स्यात् ।
संचाय्य-कुण्डपाय्य-राजसूयं क्रतो॥५. १. २२ ॥
एते तावभिधेये घ्यणन्ता निपात्यन्ते, आधारे कर्मणि वा, निपातनादेवायादेशदीर्घत्वे अपि भवतः ।
संचीयते सोमोऽस्मिन् संचीयते वाऽसाविति-संचाय्यः क्रतुः, संचेयोऽन्यः । कुण्डः पोयते सोमोऽस्मिन् कुण्ड: पीयते इति वा-कुण्डपाय्यः क्रतुः, ससोमको हि यागः क्रतुः, कुण्डपानोऽन्यः । राजा सूयतेऽस्मिन् राजा वा सोतव्य इति- राजसूयः क्रतुः ॥२२॥
प्रणाय्यी निष्कामा-ऽसम्मते ।। ५. १, २३ ।। __प्रपूर्वान्नयतेय॑ण् आयादेशश्च निपात्यते, निष्कामेऽसंमते वाऽभिधेये । प्रणाग्योऽन्तचासो, विषयेष्वनभिलाष इत्यर्थः, प्रणाय्यश्चौरः, सर्वलोकासम्मत इत्यर्थः, प्रणेयोऽन्यः ।२३। धाय्या-पाय्य-सान्नाय्य-निकाय्यमृङ्-मान-हवि-निवासे ।। ५.१.२४॥
धाय्यादयः शब्वा ऋगादिष्वर्थेषु यथासंख्यं ध्यणन्ता निपात्यन्ते. निपातनादेव च सर्वत्रायादेशः ।
दधातेऋचि-धीयते समिदग्नावनयेति-धाग्या ऋक्, रूढिशब्दत्वाव काश्चिदेव