________________
पाद-४, सूत्र-२८-३० ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ १७७
पयिषति, अध्यजीगपत् , अध्यापिपत् । णाविति किम् ? अधिजिगांसते । सन्ङ इति किम् ? अध्यापयति ॥२७॥
न्या० स०-णौसन्-अधिजिगापयिषतीति-अधीयानं प्रयुङ क्ते णिगि अन्तरङ्गयोरप्यात्वप्वागमयोरऽस्याऽपवादत्वात् अप्रवृत्तौ अध्याययितुमिच्छतीति सनि पाक्षिके गादेशे तदन्यत्रात्वे उभयत्र प्वागमे द्वित्वादौ च सिद्धं, यद्वा पापस्थाने गादेशे यावत्संभव इति न्यायात्पुन: पोन्तः।
वाद्यतनीक्रियातिपत्त्योर्गीङ् ॥ ४. ४. २८ ॥
अद्यतनीक्रियातिपत्त्योः परत इडो गोङादेशो वा भवति । अध्यगीष्ट, अध्यगीषाताम् , अध्यगोषत, अध्यष्ट, अध्यषाताम् , अध्यैषत, क्रियातिपत्तिः-अध्यगोष्यत, अध्यगीष्येताम् , अध्यगीष्यन्त, अध्यष्यत, अध्यष्येताम् , अध्यष्यन्त । कुकारो गुणनिषेधार्थः ॥२८॥
न्या० स०-वाद्यतनोकि०-अध्यगोष्टेति-अन्तरङ्गत्वात् प्रागेव सिचो गीङ । गुणनिषेधार्थ इति-न वाच्यं विधानसामर्थ्यात् न भविष्यतीति, तदा ह्यऽध्यगायीत्यत्र वृद्धिरपि न स्यात् ।
अड्धातोरादिह्य स्तन्यां चामाङा ॥ ४. ४. २१ ॥
शस्तन्यामद्यतनी क्रियातिपत्त्योश्च विषये धातो: आदिरवयवोऽड् भवति, 'अमाङा' माडा योगे तु न भवति ।
अकरोत् , अकार्षीत् , अकरिष्यत् विषयविज्ञानात् प्रत्ययव्यवधानेऽपि भवति, परविज्ञाने हि अहन्नित्यादावेव स्यात् । अमाति किम् ? मा भवान् कार्षीत , मास्म करोत् । अस्मद्विना मा भृशंमुन्मनी भूः । धातोरादिरिति किम् ? प्राकरोत् ।।२६।।
न्या० स०-अड् धातो० आदिरवयव इति- अटो धात्वऽवयवत्वे प्रयमिमीतेत्यादौ णत्वम् । अहग्नित्यादाविति-आदिशब्दादभोत्स्यत इत्यादौ ।
एत्यस्ते द्धिः ॥ ४. ४. ३० ॥
'इणिकोरस्तेश्चादेः स्वरस्य हस्तन्यां विषये वृद्धिर्भवति अमाङा । आदेरिति विभक्तिविपरिणामात् । आयन् , अध्यायन् , आस्ताम् , आसन् । अमात्येव मा स्म भवन्तो यन् , मा स्म भवन्तः सन् ।।
यत्वे लुकि च स्वराविस्वाभावावुत्तरेण वृद्धि प्राप्नोतीति वचनम् । विषयत्वविज्ञानात्परत्वाद्वा प्रागेव वृद्धो कुतो यत्वाल्लुको:प्राप्तिरिति चेत् ? सत्यम् , इदमेव वचनं ज्ञापकं कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चाद्वृद्धिस्तद्बाध्योऽट् च भवति, तेन ऐयरुः प्रध्ययतेत्यादाविपादेशे सति वृद्धिः सिद्धा । प्रचोकरदित्यादौ च दीर्घत्वम् । पूर्वमटि तु स्वरादित्वा. तन्न स्याव , यत्वाल्लगपवादनायम् । तेनेकः पक्षे यत्वाभावेऽध्येयनित्यत्रेयि सत्युत्तरेणैव वृद्धिर्भवति ॥३०॥