________________
१६८ ]
बृहद्वृत्ति- लघुन्याससंवलिते [ पाद - ३, सूत्र - १०८ - ११३
दीर्घश्च्विययकक्येषु च ॥ ४. ३.१०८ ॥
eat afsafe क्येषु यकारादावाशिषि च परतो ऽन्त्यस्वरस्य दीर्घो भवति । विशुचीकरोति, शुचीभवति, शुचीस्यात्, पटूकरोति, पटूभवति, पटूस्यात् । यङ् - चेचीयते, तोष्यते, यक्- मन्त्रयति । वल्गयति बहुवचनात् क्यशब्देन क्यनुक्यङ्क्य ङ्क्षयानामविशेषरण ग्रहणम्, अन्यथैकानुबन्धस्यैव क्यस्य ग्रहणं स्यात् । क्यन्- निधीयति, दधीयति, वय - श्येनायते भृशायते, क्यष्, -लोहितायते, लोहितायति, वय, चीयते श्रूयते, आशिषि यि - चीयात् स्तूयात्, इयात् । आशिषि यीत्येव - चेषीष्ट । विक्यानां ग्रहणादधातोरप्ययं विधिः ।। १०८ ।।
न्या० स० दीर्घश्च्वि ० - च्व्यन्तत्वात् सेः 'अव्ययस्य' ३-२-७ इति लुप् ।
-
ऋतो री ॥ ४. ३. १०१॥
धातोरधातोर्वा ऋदन्तस्य श्रुतत्वादृत: स्थाने रीरित्ययमादेशो भवति । वियङ्reti | पित्रीकरोति, पिश्रीभवति, पित्रीस्यात्, चेक्रीयते, जेह्रीयते, पित्रीयति, मात्रीयति पित्रीयते, मात्रीयते । ऋत इति किम् ? चेकीर्यते, निजे गिल्यते । । १०९ ।।
रिः शक्याशीर्ये ॥ ४. ३. ११० ॥
ऋकारान्तस्य धातोर्ऋतः स्थाने शे वये आशीर्ये च परे रिरादेशो भवति । शे व्याप्रियते, आद्रियते, क्रिया, क्रियते, ह्रियते, क्रियात्, हियात् । ह्रस्वविधानात्पूर्वेण दीर्घत्वं न भवति । आशीर्य इति किम् ? कृपीष्ट, हृषीष्ट ॥११०॥
न्या० स० - रिः शक्य ० - दीर्घत्वं न भवतीति अन्यथा पूर्वेणापि साध्येत ।
ईश्वाववर्णस्यानव्ययस्य ॥। ४. ३, १११ ॥
अव्ययवजितस्यावर्णान्तस्य च्वो प्रत्यये ईकारोऽन्तादेशो भवति । शुक्लीकरोति, शुवलीभवति, शुक्लीस्यात्, मालीकरोति, मालीभवति, मालीस्यात् । श्रनव्ययस्येति किम् ? दिवाभूता रात्रिः, दोषाभूतमहः । दीर्घत्वापवादो योगः ||१११ ।।
क्यनि ॥ ४. ३. ११२ ॥
क्न परेऽवर्णान्तस्येकारोऽन्तादेशो भवति, दीर्घत्वापवादः । पुत्रीयति, मालीयति, योगविभाग उत्तरार्थः ॥ ११२ ॥ |
न्या० स०- क्यनि-अव्ययात् क्यनोऽभावादनव्ययस्येति न विवृत्तम् ।
क्षुत्तृङ्गर्धेऽशनायोदन्यधनायम् ॥ ४. ३. ११३ ॥
क्षुदादिष्वर्थेषु थथासंख्यमशनायादयः क्यान्ता निपात्यन्ते, क्षुधि गम्यमानायाम