________________
१६६ ]
बृहवृत्ति-लघुन्याससंवलिते
[ पाद-३, सूत्र-९८-१०३
न्तलोपविधानाव्यञ्जनादौ लब्धे व्यञ्जनग्रहणं साक्षाव्यञ्जनप्रतिपत्यर्थम् , तेन क्विब्लुकि स्थानिवद्भावेनापि न भवति,-शंस्थाः पुमान् ॥१७॥
न्या० स०- ईय॑जने०-हाङो न भवतीति-'हाकः' ४-२-१०० इति भणनात् । शंस्था इति-शं सुखं तत्र तिष्ठति 'शमो नाम्न्यः' ५-१-१३४ इति अप्रत्ययापवादे 'स्थापास्ना' ५-१-१४२ इति के प्राप्तेऽसरूपत्वात् क्विप् , शंस्थाशब्दादन्यत्र लुप्तव्यञ्जनेऽपीच्छन्त्येके, तथा च जयकुमार: 'पां पाने' इत्यस्य क्विपि पीरित्याह ।
घ्राध्मोर्यङि ॥ ४. ३.१८॥
घ्राध्मोर्यडि परे ईकारोऽन्तादेशो भवति । जेघ्रीयते, देध्मीयते । यडीति किम् ? घ्रायते, ध्मायते, यङ्लुपि,-जानोतः, दाध्मीतः । अन्ये तु यङ्लुप्यपीच्छन्ति-जेघ्रोतः, देध्मीतः ॥८॥
हनो नीर्वधे ।। ४. ३. ११ ॥
हन्तेर्वधे हिंसायां वर्तमानस्य यङि नी इत्यादेशो भवति । जेनीयते, द्विषो जेनीयिषीष्ट वः । वधे इति किम् ? गतौ-जंघन्यते, केचिदिमं विकल्पेनाः, त्वं तु राजन् चटकमपि न जंघन्यसे । दीर्घनिर्देशात् यङ्लुप्यपि-जेनीतः, नेच्छन्त्यन्ये जंघत इति भवति ॥१९॥
___न्या० स०-हनो०-यङ्लुप्यपीति-यदि पूर्वसूत्रवत् यङयेव स्यात्तदा निरित्येव कुर्याद्दीर्घसिद्धावित्यर्थः । .
णिति घात् ।। ४. ३. १००॥
मिति प्रत्यये परे हन्तोर्घात इत्ययमादेशो भवति । घातः, घातयति, घातकः, साधुघाती, घातंघातम् । गितीति किम् ? हतः ॥१०॥
जिणवि घन ॥ ४. ३. १०१॥
औ णवि च प्रत्यये परे हन्तेर्घन् इत्ययमादेशो भवति । अघानि, जघान, अहं जघन, अहं जघान ।।१०१॥
न्या० स०-मिणवि०-'अङ हिहनः' ४-१-३४ इति सिद्धौ णवग्रहणं घात्बाधनार्थम् । नशेर्नेश वाङि ॥ ४. ३. १०२॥
नशेरङि परे नेश इत्ययमादेशो वा भवति । अनेशद, अनशन , अनेशताम् , अनशताम् , अनेशन् , अनशन , अनेशम् , अनशम् । अङीति किम् ? नश्यति ॥१०२।।
श्वयत्यसूवचपतः श्वास्थवोचपप्तम् ॥ ४. ३. १०३ ॥