________________
पाद ३, सूत्र ५७-६१ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[१५५
- विपूर्वस्य श्रमेणिति कृत्प्रत्यये नौ च परे वा वृद्धिर्न भवति । विश्रामः, विश्रमः, सूर्यविश्रामभूमिः, अविश्रमं यावदिदं शरीरम् , विश्रामकः, विश्रमक: व्यश्रामि, व्यश्रमि ।
वीति किम् ? श्रमः श्रमकः, अश्रमि। कृञ्जावित्येव,-विशश्राम, अन्ये तु विश्रमेवृद्धि नेच्छन्त्येव, अपरे तु नित्यमेव वृद्धिमुपन्ति । एके तु घञ्येव विकल्पमातिष्ठन्ते
उद्यमोपरमौ ॥ ४. ३. ५७॥
उदुपपूर्वयोर्यमिरम्योनि वृद्ध्यमावो निपात्यते । उद्यमः, उपरमः । अन्यत्र पूर्वेण वृद्धिरेव-यामः, संयामः, सुयामः, रामः, विरामः ।।५७।।
णिद्धान्त्यो णव ।। ४. ३. ५८ ।।
परोक्षातृतीयत्रिकवचनमन्स्यो णव वा णिन्न भवति, णित्त्वाश्रयं कार्य पक्षे प्रतिषिध्यते । सुप्तोऽहं किल विललप, विललाप, विवय, विवाय, निनय, निनाय, लुलव, लुलाव, जजागर, जजागार, चुकुट, चुकोट । वा णित्त्वप्रतिबन्धात्कुटादीनां गुणविभाषा । अन्त्य इति किम् ? स पपाच । णित्त्वाश्रयस्य विकल्पनात गवाश्रयं नित्यमेव-अहं पपौ ।।५।।
न्या० स०-णिद्वान्स्यो०-णवाश्रयं नित्यमेवेति - ननु तर्हि णवाश्रयत्वात् 'जागुनिणवि' ४-३-५२ इति अनेन जजागारेत्यत्र नित्यवृद्धिः प्राप्नोति ? सत्यं,-नानेन सूत्रेणात्र वृद्धिः, तत्र च णित्त्वमाश्रीयते।
उत और्विति व्यञ्जनेद्धः ॥ ४. ३. ५१॥ .
अद्विरुक्तस्योकारान्तस्य धातोयंजनादौ विति वकारानुबन्धे प्रत्यये परेओर्भवति । यौति, यौषि, यौमि, रौति, रौषि, रौमि, यौतु, रौतु, अयौत, अरौद , अयोः, परोः । उत इति किम् ? एति।
धातोरित्येव, सुनोमि, तनोमि । वितीति किम् ? युतः, रुतः । व्यञ्जन इति किम् ? यवानि, स्तवानि । अद्वेरिति किम् ? जुहोति, योयोति, तुष्टोथ । तोः स्थाने तातडो डित्त्वात्स्थानिवत्त्वं बाध्यते तेन युताव रतादित्यादौ नौकारः,-केचित्तु यङ्लुबन्तस्यापीच्छन्ति । नोनौति, योयोति, रोरोति ॥५६॥ .
वोर्णोः॥ ४. ३.६०॥
उर्णोतेरद्विरुक्तस्य व्यञ्जनादौ विति प्रत्यये और्वा भवति । प्रोणोंति, प्रोर्णोति । व्यञ्जनादावित्येव प्रोर्णवानि । वितीत्येव ? प्रोणुतः। अद्वेरित्येव,-प्रोर्णोनोति । पूर्वेण नित्यं प्राप्ने विकल्पः । यङ्लुबन्तस्यापीच्छन्त्यन्ये-प्रोर्णोनौति ॥६०॥
न दिस्योः ॥ १. ३. ६१ ॥