________________
पाद-२, सूत्र-३७-४० ] श्री सिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[११९
अबभाषत , दोप-प्रदीदिपत् , अदिदीपत , पीड्-अपीपिडत , अपिपीडत , जीव-अजीजिवत् , अजिजीवत् , मोल-अमोमिलत् , अमिमोलत् , कण -प्रचोकणत् , अचकाणत् , रण-प्ररीरणत् , अरराणत् , बण-अबीबणत् , प्रबबाणत् , भण्-प्रबीभणत् , अबभाणत् , श्रण-प्रशिश्रणत्, प्रशाणत्, हग-अजूहवत् , अजुहावत् , हेठ-अजीहिठत् , अजिठत् , लुट्प्रलूलुटत् , अलुलोटत् , लुप्लु अल्लुपत् अलुलोपत् , लप्-अलीलपत् , अललापत् बहुवचनं शिष्ट प्रयोगानुसारेण अन्येषामपि परिग्रहार्थम् ॥३६।।
न्या० स०-भ्राजभास०-अशिश्रणदिति-शण श्रण दाने इत्यस्य दानेऽर्थे ह्रस्वत्वं घटादित्वात् सिद्धं पाकरूपेऽर्थान्तरे त्वऽनेन विकल्पः, 'श्रणण् दाने' इत्यस्य तु 'यमोऽपरिवेषणे णिचि च' ४-२-९ इत्यनेन णिचि यम एवेति नियमादऽप्राप्तं विकल्प्यते ।
अन्येषामपोति-तेन अबिभ्रसत् अबभ्रासदित्यादि सिद्धम् । ऋवर्णस्य ।। ४. २. ३७ ॥
धातोरुपान्त्यस्य ऋवर्णस्य ऊपरे णौ वा ऋकारो भवति । प्रवीवृतत् , अववर्तत् , अवीवृधत , अववर्धत् , अमीमजत् , अममार्जत् , अदीदृशत् , अददर्शत् , अबीकृतत्, : अचिकीर्तत् । वचनसामर्थ्यादीादेशौ बाध्येते । उपान्त्यस्येत्येव -अचीकरत् ॥३७॥
न्या० स०-ऋवर्णस्य.- ननु किमर्थं वर्णग्रहणं ऋहत इत्येतावदास्ताम् ? न, यद्येवं क्रियते तदाऽचीकृतदित्ययं प्रयोगो न निष्पद्यते, अथ पाठकालेऽपि कृतण् इति पठिष्यते, न, तदा ऋत्त इत्येतस्याऽन्यत्र ऋकारे चरितार्थत्वात् अत्र कीादेश एव स्यात् , अथ कीर्तण इत्यऽपठनादेवाऽस्यापि ऋद्भविष्यति, तदा यदाऽनित्यो हि णिच्चुरादीनामिति न्यायेन णिजऽभावस्तदा कुतण् इति पाठे कृततीति न स्यात् किन्तु कर्त्ततीत्यनिष्टं स्यादिति वर्णग्रहण, ह्रस्वाधिकारेणैव सिद्ध ऋत्करणमचोकृतदित्यत्र गुणनिषेधार्थं, ह्रस्वकरणसामर्थ्याद् गुणो न भविष्यतीति न वाच्यं गुणकरणे ह्रस्वस्य चरितार्थत्वात् ।
जिघ्रतेरिः ॥ ४. २. ३८ ॥
जिघ्रतेरुपान्त्यस्य उपरे णाविकारो वा भवति । अजिघ्रिपत् , अजिघ्रपत् । तिनिर्देशो यङलुनिवृत्त्यर्थः । अजाघ्रपत् ।।३८।।
तिष्ठतेः॥ ४, २, ३१ ॥
तिष्ठतेरुपान्त्यस्य ङपरे णाविकारो भवति । अतिष्ठिपत् , अतिष्ठिपताम् , अतिष्ठिपन् । तिनिर्देशो यङ्लुनिवृत्त्यर्थः । प्रतास्थपत् , योगविभागो नित्यार्थः ॥३९।।
ऊदुषो णौ ॥ ४. २. ४० ॥
दुरुपान्त्यस्य णो परे ऊकारादेशो भवति-दुष्यन्तं प्रयुङ्क्ते दूषयति, प्रदूष्य गतः । णाविति किम् ? दोषो वर्तते, धातोः स्वरूपग्रहणे तत्प्रत्ययविज्ञानादिह न भवति । दोषणं