SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ३४ ] बृहद्वृत्ति - लवन्याससंवलिते [१०] १. सू० ४०-४२.] बहु-गणं भेदे ॥ १. १. ४० ॥ 'बहु’' 'गण' इत्येतौ शब्दौ भेदे वर्तमानौ सङ्ख्यावद् भवतः, भेदी नानात्वमेकत्वप्रतियोगि । बहुकः, बहुधा, बहुकृत्वः । गरणकः, गरणधा, गरणकृत्वः । भेद इति किम् ? नैपुल्ये सङ्घ च सङ्ख्याकार्यं मा भूत् । बहुगरणौ न नियतावधिभेदाभिधायकाविति सङ्ख्याप्रसिद्धेरभावाद् वचनम्, अत एव 5 भूर्यादिनिवृत्तिः ।। ४० ।। न्या० स० - बहुगरणमित्यादि । वैपुल्य इति यथा रजोगणः, रजः संघात इत्यर्थः । श्रथ बहु-गरणशब्दयोर्भेदवचनत्वात् सङ्ख्यात्वमस्त्येव, यतो भेदः परिगणनं सङ्खयति, ततश्वक व्यादीनामिव बहु-गरणशब्दयोरपि लोकादेव सङ्ख्यात्वसिद्धौ किमनेनातिदेशवचनेन ? प्रतिदेशो हि अन्यत्र प्रसिद्धस्यान्यत्र प्रसिद्धिप्रापरणार्थ इत्याह- बहुगरणावित्यादि - 10 लोके ह्यक-व्यादीनां नियतावधिभेदाभिधायित्वे सङ्ख्या प्रसिद्धि:, अनयोश्च न तथेति सङ्ख्याप्रसिद्ध रभाव इति ।। ४० ।। क-समासेऽध्यर्थः ॥ १. १. ४१ ॥ अध्यर्धशब्दः कप्रत्यये समासे च विधातव्ये सङ्ख्यावद् भवति । श्रध्यर्धेन क्रीतम् - अध्यर्धकम्, “सङ्ख्या- डतेश्वाशत्तिष्टेः कः " [ ६. ४. १३०. ] इति 15 कः । अध्यर्धेन शूर्पेण क्रीतम् - अध्यर्धशूर्पम्, अत्र सङ्ख्यापूर्णत्वेन द्विगुत्वे क्रीतार्थस्येकरणः “अनाम्न्यद्विः प्लुप्" [ ६. ४. १४१.] इति लुप् । क-समा इति किम् ? धादिप्रत्ययविधौ न भवति ।। ४१ ।। अर्धपूर्वपद पूरणः ।। १. १.४२ ।। समासावयवभूते पदे पूर्वपदमुत्तरपदं चेति प्रसिद्धिः, अर्धपूर्वपदः पूरण-20 प्रत्ययान्तः शब्दः कप्रत्यये समासे च विधातव्ये सङ्ख्यावद् भवति । अर्धपञ्चमकं अर्धपञ्चमशूर्पम् ।। ४२ ।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहद्वृत्तौ प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः ।। हरिरिव बलिबन्धकरस्त्रिशक्तियुक्तः पिनाकपाणिरिव । कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः ।। १ ।। 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy