SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ ६०६ ] बृहवृत्ति-लघुन्याससंवलिते [पा० २. सू० १२७-१२८.] क्षेप इति किम् ? न पचति चैत्रः । अ, मा, नो, ना, प्रतिषेध इत्यकारेण प्रतिषेधार्थीयेनैव सिद्धौ क्षेपे नत्रः श्रवणनिवारणार्थम्, अनुत्तरपदार्थ च वचनम् ।। १२६ ।। न्या० स०--त्यादौ क्षेपे। न पाचक इति असमासोऽयं नसमासस्य पाक्षिकत्वात पाचक इति नोत्तरपदमिति पूर्वेणापि न भवति । अनुत्तरपदार्थमिति त्याद्यन्तेन 5 समासाऽभावतः समासे च सति पूर्वोत्तरपदव्यवहारात् ।। ३. २. १२६ ।। नगोपाणिनि वा ॥ ३. २. १२७ ॥ अप्राणिन्यभिधेये नग इति निपात्यते वा। न गच्छतीति नगःपर्वतः, अगः पर्वतः, नगा वृक्षाः, अगा वृक्षाः । अप्राणिनीति किम् ? अगो वृषलः शीतेन । पूर्वेण नित्यमादेशे प्राप्ते विकल्पोऽयम् ।। १२७ ॥ 10 नखादयः ॥ ३. २. १२८ ॥ नखादयः शब्दा अकृताकाराद्यादेशा निपात्यन्ते । नास्य खमस्तीति नखः, न भ्राजते इति नभ्राट् क्विबन्तः, न पातीति नपात् शत्रन्तः, त्रिलिङ्गोऽयम्, निपातनात्तु नाभावः, न वेत्तीति नवेदाः, औणादिकोऽस्, सत्सु . साधुः सत्यः, 'साधौ' यः न सत्यः असत्यः, नासत्यः, नासत्यौ, नासत्याः, न15 . मुखतीति नमुचिः, औरणादिक: किः, नास्य कुलमस्तीति नकुलः । कथं न न भ्राजते किंतु भ्राजत एवेति नभ्राट् ? पृषोदरादित्वादेकस्य नजो लोपे भविष्यति, एवं न न पाति नपात्, न न वेत्ति नवेदाः, न न मुञ्चति नमुचिः, न न कुलमस्त्यस्य नकुलः, न न खमस्त्यस्य नखः, न पुमान् न स्त्रीति नपुंसकम्, अत एव निपातनात् स्त्रीपुंसयोः पुंसकादेशः । न. क्षीयते न क्षरति वा20 नक्षत्रम्, औरणादिके त्रटि, क्षभावे निपात्यते । न कामति न क्रीणाति वा नक्रः, डप्रत्ययो निपातनात्, नास्मिन्नकं दुःखमस्ति नाकः, न विद्यन्ते ग्नाः श्रियः छन्दांसि वास्य नग्नः, न अगः नागः, न विद्यते भागोऽस्य नभागः, नारमञ्चति नाराचः, न प्राप्यत इति नापित: न मोयतेऽसाविति नमेरुः, नाभिनन्दति वधूमिति ननान्दा, नान्तरेण भवति, नान्तरीयकम्, न न चिकेत्ति25 नाचिकेतः, अत एव निपातनात् कित् ज्ञापनार्थो जुहोत्यादौ द्रष्टव्यः अस्माच्च
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy