SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू. ११३-११५.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ६०१ न्या. स०--सत्यागदा। अस्त्वितीति यदीदं तुवन्तं तदा 'नाम नाम्ना' [ ३. १. १८.] इति समासो न प्राप्नोति तदऽभावे कथमुत्तरपदमित्याशङ्का । ॥३.२.११२।। लोकंपृणमध्यंदिनानभ्याशमित्यम् ॥ ३. २. ११३ ॥ एते शब्दाः कृतपूर्वपदमान्ता निपात्यन्ते । लोकं पृणति लोकस्य वा 5 पृणः लोकंपृणः, मध्यं दिनस्य मध्यं च तत् दिनं चेति वा मध्यंदिनम्, अश्नोतेर्घञ्यभ्याश इति रूपम्, अनभ्याशं दूरमित्यं गन्तव्यमस्यानभ्याशमित्यः, दूरतः परिहर्तव्यः, अनभ्याशेनेत्योऽनभ्याश मित्य इति वा दूरेण प्राप्यो न त्वन्तिकेनेत्यर्थः । अन्ये तु प्रोणातेरिणगन्तस्याचि ह्रस्वत्वं निपात्य लोकप्रिणः लोकप्रीणक इत्यर्थ इत्युदाहरन्ति । कश्चित्त्वकृतह्रस्वत्वमेव मन्यते10 लोकंप्रीण ।। ११३ ।। __ न्या० स०-लोकंपृण । लोकं पृणतीति वाक्ये 'मूलविभुजादयः [५. १. १४४.] इति कः, यदा लोकस्य पृणः तदा 'नाम्युपान्त्य' [ ५. १. ५४. ] इति कः ॥ ३. २. ११३ ॥ धाष्ट्राग्नेरिन्थे ॥ ३. २. ११४ ॥ . भ्राष्ट्राग्निभ्यामिन्धशब्दे उत्तरपदे परे मोऽन्तो भवति । भ्राष्ट्रस्येन्धः15 भ्राष्ट्रमिन्धः, एवमग्निमिन्धः ।। ११४ ।। न्या० स०--भ्राष्ट्राग्ने। भ्राष्ट्रमिन्ध इति इन्धानं प्रयुक्त णिग् भावे अल्, . इन्ध्यतेऽनेनेति वा 'पुन्नाम्नि' [ ५. ३. १३०.] इति घः। इन्धयतीत्यचि वा, पनि तु 'दशनावोद' [ ४. २. ५४. ] इति 'न' लोपः स्यात् ।। ३. २. ११४ ॥ अगिलादिगलगिलगिलयोः ।। ३. २. ११५ ॥ गिलान्तशब्दवजितात् पूर्वपदात्परे गिले गिलगिले चोत्तरपदे परे मोऽन्तो भवति । तिमि गिलतीति तिमिङ्गिलः, एवं मत्स्यंगिलः, बालंगिलो राक्षसः, अपत्यंगिला शिशुमारी। तिमीनां गिलगिल: तिमिगिलगिलः, गिलगिलशब्दे गिलशब्दो नोत्तरपदमिति गिलगिलोपादानम् । गिलशब्दस्य स्वरान्तस्य पर्युदासेन स्वरान्ताद्विधिस्तेन व्यञ्जनान्तान्न भवति, धूर्गिलः 125 अगिलादिति किम् ? तिमिगिलं गिलति तिमि गिलगिलः । गिलं गिलति 20
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy