SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० १०८-११०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५६६ मादेशो भवति । उदमेघो नाम यस्यौदमेघिः पुत्रः, उदवाहो नाम यस्यौदवाहिः पुत्रः, उदपानम् निपानम् । उदधिः समुद्रः, उत्तरपदस्य, लवणोदः, कालोदः, क्षीरोदः, एवंनामानः समुद्राः, लोहितोदा, क्षीरोदा नाम नदी, अच्छोदम्, सितोदम्, अरुणोदम्, लोहितोदम्, एवंनामानि सरांसि ।। १०७ ।। न्या० स०-नाम्न्युत्तरः। उत्तरपदाधिकारात् पूर्वपदस्यैव स्यादित्युत्तरपदस्य- 5 त्युच्यते। चकाराभावे च पूर्वपदस्य न स्यादिति चकारः ।। ३. २. १०७ ।। ते लुगवा ॥ ३. २. १०८ ॥. नामविषये ये पूर्वोत्तरपदे ते लुग्वा भवतः । देवदत्तः, देवः, दत्तः, सत्यभामा, सत्या, भामा-शब्द साम्येऽपि प्रकरणादेरर्थविशेषनिश्चयः ।।१०८।। न्या० स०--ते लुग्वा। ननु पूर्वपदस्योत्तरपदस्य वा लोपे यः समुदायमनु-10 वर्तते देवादिशब्दः स देवदत्ताद्यर्थेन च त्रिदशार्थेन च समान इति कथं निश्चयो भवति अयं देवदत्तार्थ एव न तु त्रिदशाद्यर्थ इत्याह-शब्देत्यादि । शब्दानां भिन्नार्थानां साम्येऽपि तुल्यरूपत्वेऽपि ॥ ३.२.१०८ ॥ द्वयन्तरनवर्णोपसर्गादप ईप ॥ ३. २. १०६ ॥ द्वि अन्तर् इत्येताभ्यामनवर्णान्तेभ्यश्चोपसर्गेभ्यः परस्याप् इत्येतस्यो-15 त्तरपदस्य ईप् इत्ययमादेशो भवति । द्विधा गता आपोऽस्मिन्निति द्वीपम्, एवमन्तरीपम्, नीपम्, प्रतीपम्, समीपम्, अन्वीपम्, वीपम् । उपसर्गादिति किम् ? शोभना आपः स्वापः, पूजिता आपः अत्यापः, स्वती पूजायां नोपसगौं, अत एव समासान्तो न भवति । अनवर्णेति किम् ? प्रापम्, परापम्, संश्लिष्टा आगता आपोऽस्मिन् समापो देवयजनम् ।। १०६ ।। न्या० स०--द्वचन्तर० । द्वीपमिति यथा द्वीपमित्यत्राऽस्वपदविग्रहः एवमन्तर्गताः निवृत्ता: प्रत्यावृत्ताः संगता: अनुगता: आपोऽस्मिन्निति अस्वपदो बहुव्रीहिः 'एकार्थं चानेकं च' [ ३. १. २२. ] इति । सर्वेषु 'ऋक् पूः पथ्यपोऽत्' [७. ३. ७६. ] समासान्तः ॥ ३. २. १०६ ॥ n 25 अनोदंश उप ॥३. २. ११० ॥ अनोः परस्यापो देशेऽभिधेये उप् इत्ययमादेशो भवति । अनुगता
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy