SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ [ पा० २. सू०७१ - ७३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५८३ न पुंवन्निषेधे ॥। ३. २. ७१ ॥ महतः पुंवन्निषेधविषये उत्तरपदे डा न भवति । महती प्रिया अस्य महतीप्रियः, महतीमनोज्ञः ।। ७१ ।। इच्यस्वरे दीर्घ आच्च ॥। ३. २. ७२ ॥ इच्प्रत्ययान्तेऽस्वरादावुत्तरपदे परे पूर्वपदस्य दीर्घ आकारश्चान्तादेशो 5 भवति । बाहुषु च बाहुषु च मिथो गृहीत्वा व्यासक्तं बाहूबाहवि व्यासजेताम्, बाहाबाहवि एवं केशाकेशि, मुष्टिभिश्च, मुष्टिभिश्च प्रहृत्य कृतं युद्धं मुष्टमुष्टि, मुष्टामुष्टि, एवं यष्टायष्टि, यष्टीयष्टि दण्डादण्डि, दीर्घत्वात्वयोरकारान्तादन्यत्र विशेषः । दीर्घ साहचर्यादात्वमपि स्वरान्तानामेव भवति, तेनेह भवति, दोर्दोषि धनुर्धनुषि । अस्वर इति किम् ? अस्यसि, 10 न इष्विषवि ।। ७२ ।। न्या० स०-- इच्यस्वरे० । साहचर्यादिति स्वरस्य ह्रस्वदीर्घप्लुताः इति न्यायादित्यर्थः । । ३. २. ७२ ।। हविष्यष्टन' कपाले । ३. २.७३ ।। 'हविष्यभिधेयेऽष्टन् शब्दस्य कपाले उत्तरपदे दीर्घोऽन्तादेशो भवति 115 अष्टसु कपालेषु संस्कृतम् - प्रष्टाकपालं हविः । हविषीति किम् ? अष्टानां कपालानां समाहारः- ग्रष्टकपालम्, पात्रादित्वात्स्त्रीत्वाभावः । कपाल इति किम् ? अष्टपात्रं हविः ।। ७३ ।। अष्टा न्या० स०-- हवि० । प्रायोगिकस्य बहुसंख्यार्थाभिघायकस्याऽष्टन् इत्यनुकरणम्, ततः प्रायोगिकस्यैकसंख्यस्य शब्दस्याभिधायकमिति षष्ठ्येकवचनम् । अनुक्रियमाणस्य 20 स्वरूपविनाशप्रसङ्गात् 'अनोऽस्य' [ २.१.१०८. ] इत्यकारलोपो न भवति । कपालमिति त्राष्टनो व्यञ्जनान्तत्वाव्यभिचाराद् दीर्घे परविधौ नलोपस्या ( क्वचिदऽसत्त्वेऽपीति पाठः स च प्रकटार्थः) भावेऽपि दीर्घस्य स्वरधर्मत्वादकारस्योपान्त्यस्यापि स्वरापेक्षयान्त्यत्वाद्वा दीर्घोऽनेन ।। ३. २. ७३ ॥
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy