SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ५५८ ] बृहद्वृत्ति ल न्याससंवलिते [पा० २. सू० ३०-३३.] तत्र कृद्धातोविधीयते तद्धितोऽपि प्रथमान्तादस्यास्त्युपाधिकस्तस्मात् सप्तम्यन्तात् तयोविधानाऽसंभवात् तदन्ते उत्तरपदे सप्तम्या अलुप् प्रतिषिध्यत इति। ते वै विषय इति वैशब्दो हेत्वर्थे ततो 'वै' इत्यस्य यत इत्यर्थः । परानुग्राहकं हि शास्त्रं तत्र केचित् तीक्ष्णधियस्तान् प्रति संक्षेपेण प्रणयनम् । केचिन्मन्दधियस्तान् प्रति प्रपञ्च प्रारभ्यते ॥ ३. २. २६ ।। षष्ठयाःक्षेपे ॥ ३. २. ३० ॥ क्षेपे गम्यमाने उत्तरपदे परे षष्ठ्या लुप् न भवति । चौरस्यकुलम्, दासस्यभार्या, वृषल्याःपतिः। क्षेप इति किम् ? ब्राह्मणकुलम् । कथं चौरकुलं, दासभार्या, वृषलीपतिः । तत्त्वाख्यानमेतन्न क्षेपः ।। ३० ।। न्या० स०--षष्ठयाः क्षेपे। अत्र पूर्वपदात् क्षेपे अलुप् इष्यते तेन भूपस्य 10 जाल्मो भूपजाल्म इत्यत्र लुबेव भवति । एतत्तु *व्याख्यानतो विशेषप्रतिपत्तिरिति इति न्यायात् न्याय्यम् ॥ ३. २. ३० ॥ पुत्रे वा ॥ ३. २. ३१ ॥ पुत्रशब्दे उत्तरपदे क्षेपे गम्यमाने षष्ठया लुप् वा न भवति । दास्याःपुत्रः, दासीपुत्रः, वृषल्या:पुत्रः, वृषलीपुत्रः । क्षेपे इत्येव ? ब्राह्मणपुत्रः 115 दासीपुत्र इति तु तत्त्वाख्याने । पूर्वेण नित्यं निषेधे प्राप्ते विकल्पः ।। ३१ ।। पश्यद्वाग्दिशो हरयुक्तिदण्डे ॥ ३. २. ३२ ॥ .. पश्यद्वाग्दिक्शब्देभ्यः परस्याः षष्ठ्या यथासंख्यं हरयुक्तिदण्डेषूत्तरपदेषु लुब् न भवति । पश्यतोहरः, अनादरे षष्ठीयम्, जनं पश्यन्तमनादृत्य हर्तेत्यर्थः, वाचोयुक्तिः, दिशोदण्डः, संबन्धषष्ठ्यौ ।। ३२ ॥ न्या० स०-पश्यद्वाग०। पश्यतोहर इत्यत्र यदा पश्यतां हर इति क्रियते तदा अलुप् भवति वा नवा ? उच्यते, शब्दशक्तिस्वाभाव्यात् समासस्याप्यगमकत्वे समासाभावात् लुगपि न प्राप्नोति । यदा तु अर्थात् प्रकरणाद् वा बह्वर्थो ज्ञायते तदा भवत्येवाऽलुप् ।। ३. २. ३२ ॥ अदसोकायनणोः ।। ३. २. ३३ ॥ 25 अदसः परस्या षष्ठया अकञ्प्रत्ययविषये उत्तरपदे आयनण प्रत्यये च 20
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy