SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० १०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५४६ खित्प्रत्ययान्ते उत्तरपदे परे लुप् न भवति । स्त्री स्त्रियं वात्मानं मन्यते स्त्रीमन्यः स्त्रियंमन्यः, श्रियंमन्यः, भ्र वंमन्यः, नरंमन्यः, रायंमन्यः, गांमन्यः, नावंमन्यः । अथ श्रियमात्मानं मन्यते श्रियंमन्यं कुलमित्यत्र नपुंसकलक्षणोऽमो लोपः कस्मान्न भवति ? उच्यते-श्रीशब्दस्यात्मसमानाधिकरणस्य नपुंसके वृत्त्यभावादाविष्टलिङ्गत्वाच्च न भवति, अन्ये त्वाहुः,-यथा प्रष्ठादयः शब्दा 5 धवयोगात् स्त्रियां वर्तमानाः स्वलिङ्ग विहाय स्त्रीलिङ्गमुपाददते, तथा श्रीशब्दः कुले वर्तमानः स्वलिङ्गपरित्यागेन वर्तते, ततो नपुंसकलक्षणं ह्रस्वत्वममो लुप् च भवति, श्रियंमन्यं कुलमिति । नचायं नपुंसकलक्षणस्य लोपस्यापवादः, किंतु ऐकार्थ्यलक्षणस्योत्तरपदग्रहणात् । नामिग्रहणं किम् ? शंमन्यः, क्ष्ममन्यः, वाग्मन्यः । एकस्वरादिति किम् ? हरणिमन्या,10 बुधमन्या। खितीति किम् ? स्त्रीमानी 'मन्याण्णिन्' [५. १. ११६.] ।। ६ ।। न्या० स०-न नाम्ये। नाम्यन्तादिति व्याख्याने नाम्यवयवयोगात् समुदायोऽपि नामी। स तु अवयवोऽन्तर्मध्ये च संभवतीति । ततः संभवे व्यभिचारे च कविशेषणमर्थवत् इति न्यायात्, 'विशेषणमन्तः' [ ७. ४. ११३. ] इत्यन्तत्वम् । खित्प्रत्ययान्त इति नन्वत्र 'सप्तम्या आदिः' [७. ४. ११४.] इति खिदादावुत्तरपदे इति15 प्राप्नोति ? न, खिदादेरुत्तरपदस्यासंभवादिति । ननु 'स्त्रियंमन्य' इत्यत्राऽलुपि सत्यां 'कर्मणि कृतः' [२.२.८३.] इति सूत्रेण षष्ठी कथं न भवति यतोऽग्रे कृत्प्रत्ययोऽस्ति ? उच्यते, प्रत एवामोऽलबविधानात षष्ठी न भवति । अन्यथा ह्यमोऽल्प कथं विधीयत इति । न चायमिति नन्वनेन निषेधः प्राप्नोति तत्कथममोऽलुबित्युक्तमन्यरित्याशङ्का । ऐकार्यलक्षणस्येति · अयमपवाद उत्तरपदे एव प्राप्तस्य बाधक इत्यर्थः ॥ ३. २.६ ॥ 20 असत्वे सेः ॥ ३. २. १० ॥ असत्त्वे विहितो यो ङसिः तस्योत्तरपदे परे लुप् न भवति । स्तोकान्मुक्तः, अल्पान्मुक्तः, कृच्छ्रान्मुक्तः, कतिपयान्मुक्तः, अन्तिकादागतः, अभ्याशादागतः, सविधादागतः, दूरादागतः, विदूरादागतः, विप्रकृष्टादागतः, 'क्त नासत्त्वे' [ ३. १. ७४. ] इति समासः। असत्त्वे इति किम् ? 25 स्तोकभयम् स्तोकापेतः। उत्तरपद इत्येव ? निष्क्रान्त:-स्तोकान्निस्तोकः ।। १० ॥
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy