SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ [ पा० १ सू० १२७.] श्री सिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५१७ एकत्र ब्राह्मणस्य वत्सा ब्राह्मणवत्सेति पुमर्थो विशेषणम् । अन्यत्र तु ब्राह्मण्या वत्सो ब्राह्मणीवत्स इति स्त्र्यर्थ इत्यर्थोऽप्यन्य इति तन्मात्रभेदाभावादेकशेषाभावः । यदुपाध्याय: स्त्रीपुंसयोः सहोक्तावेकशेषः सा च प्रधानयोरेव भवतीति यत्र प्रधानस्त्रीपुसकृतो विशेषस्तत्रैकशेषः, इह त्वप्रधानस्त्रीपुंसकृतोऽपि विशेष इत्येकशेषाभावः । ब्राह्मणवत्सश्च ब्राह्मणीवत्सा चेत्यपि कृतेऽवान्तरस्त्रीलिङ्गभेदान्नैकशेषः ब्राह्मणवत्सा ि तु कृते भवत्येव ।। ३. १. १२६ ।। 5 ग्राम्याशिशुविशफसंघे स्त्री प्रायः ॥ ३. १. १२७ ॥ ग्राम्या अशिशवो ये द्विशफा - द्विखुरा अर्थात्पशवः तेषां संघे स्त्रीपुरुषारणां सहोक्तौ प्राय: स्त्रीवाच्येकः शिष्यते, स्त्रीपुरुषमात्र भेदश्चेद्भवति । पूर्वेण पुरुषशेषे प्राप्ते स्त्रीशेषार्थं वचनम् । गावश्च स्त्रियः गावश्च पुरुषाः इमा10 गावः, अजाश्चेमे प्रजाश्चेमा इमा प्रजाः, एवं मेष्य इमाः, महिष्य इमाः । ग्राम्येति किम् ? आरण्यानां मा भूत्, - रुरवश्चेमे रुरवश्चेमा इमे रुरवः, पृषताश्च पृषत्यश्च पृषता इमे प्रशिशुग्रहरणं किम् ? वत्साश्चेमा वत्साश्चेमे इमे वत्साः, वर्कर्यश्च वर्कराश्च वर्कराः । द्विशफेति किम् ? प्रश्वाश्चेमे श्रश्वाश्चेमा : इमेऽश्वाः, गर्दभाश्च गर्दभ्यश्च गर्दभाः, मनुष्यश्चेमा मनुष्याश्चेमे इमे मनुष्याः, पक्षिण्यश्च 15 पक्षिणश्च पक्षिणः । संघग्रहणं किम् ? गौश्चायं गौश्चेयम् इमौ गावौ एवमेतावजी, प्राय इति किम् ? उष्ट्रयश्च उष्ट्राश्च उष्ट्राः, छाग्यश्च छागाश्च छागाः, व्यावृत्तौ सर्वत्र पूर्वेण पुरुषशेष एव भवति । तन्मात्रभेद इत्येव ? . गोवलीवर्दम्, प्रजाविकम् ।। १२७ ।। saar न्या० स० - - ग्राम्या शिशु० । महिष्य इमा इति । ननु गावोऽजाश्च शिशवो20 भवन्ति तत्कथमत्राशिशव इत्युच्यमानः स्त्रीशेषः ? नैष दोषः । यद्यपि गावोऽजाश्च शिशवो भवन्ति'। तत्राशिशुत्वकृतोऽयं विधिर्न तु शिशुत्वनिबन्धनः प्रतिषेधः । इत्यादि एष्वश्वादीनां खुरसंबन्धेऽपि वृत्तैकखुरत्वात् मनुष्यादीनां खुररहितत्वात् द्विदुरत्वाभावात् सर्वत्र पुरुषशेष एव । इमौ गावाविति ननु समुदायस्य संघरूपत्वात्तस्य च द्वयोरपि संभवात् कथं संघ इति वचनात् द्वयोरपि न भवति ? सत्यं द्वितीयेन विना25 सहोक्तरभावात् सहोक्तिग्रहणादेव द्वयोः संघे सिद्ध संघग्रहरणं संघप्रकर्षार्थम् । उष्ट्रा इति केचिदत्रोष्ट्रा न ग्राम्या इत्याहुः । तथापि छागा इत्येतदर्थं प्राय इति वक्तव्यम् । अविकमिति प्रविकशब्द उरणादौ व्युत्पन्नः । गोबलोवर्द्दमित्यत्र 'पशुव्यञ्जनानाम् ' [ ३.१.१३२. ] इति, प्रजाविकमित्यत्र तु 'गवाश्वादि:' [ ३. १. १४४ ] इति चैकत्वम् ।। ३. १. १२७ ।। 30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy