________________
[पा० १. सू० १२५-१२६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५१५
गार्ग्यगर्गाविति अत्र लघ्वक्षराद्यभावात् पूर्वनिपातानियमः। यदा तु गर्गस्याय॑त्वविवक्षा तदा तस्य पूर्वनिपातः। भागवितीत्यत्र भागेन वित्तस्तस्यापत्यमत इत्रि भागवित्तिः। तस्य सौवीरवृद्धस्यापत्यं युवा गहित इति 'भागवित्तितापर्णबिन्दवः' [ ६. १. १०५. ] इति इकण ततो द्वद्वः ॥ ३. १. १२४ ।।
स्त्री वच्च ॥ ३. १. १२५॥
वृद्धस्त्रीवाची शब्दो युववाचिना सहोक्तावेकः शिष्यते पुंवत् पुंलिङ्गा चेयं भवति, स्त्र्यर्थः पुमर्थो भवतीत्यर्थः, तन्मात्रभेदे। गार्गी च गाायणश्च गाग्यौं, वात्सी च वात्स्यायनश्च वात्स्यौ, दाक्षी च दाक्षायणश्च दाक्षी। गार्गी च. गाायणौ च गर्गाः,-अत्र पुंवद्भावात् डीनिवृत्तौ यत्रो लुप्,-गर्गानिति 'शसोऽता सश्च नः पुंसि' [१. ४. ४६.] इंति नत्वं च । इमौ गार्यावित्यनु-10 प्रयोगस्यापि पुंस्त्वम् ।। १२५ ।।
__ न्या० स०--स्त्री पुंवच्च०। नन्वत्र पुवद्ग्रहणं किमर्थं, स्त्रीत्येवोच्यतां ततश्च स्त्रीवाचिनो युववाचिना पुसा एकशेषे स्त्रीपुनपुसकानामित्येव पुस्त्वं भविष्यति । न च वाच्यं युववाचिनो यदा स्त्रीत्वं तदा किं भविष्यतीति । अस्त्री युवेति भणनात् स्त्रीवाचिनो युवत्वसंज्ञाया प्रभावात्. नापि युववाचिनो नपुंसकत्वं वाच्यं । आपत्यतद्धितस्य15 स्त्रीपूस्त्वस्यैवोक्तत्वात् ततः पूस्त्वस्य सिद्धत्वात पूवग्रहणमतिरिच्यते? न, स्त्रीपुन्नपुसकानामित्यस्य प्रायस्त्यदादिविषय एव प्रवर्तनात्तेन प्रायिकत्वात् नियमार्थ वचनम् । किं च अरुणाचार्येण अपत्यप्रत्ययान्तानामाश्रयलिङ्गत्वमुक्त ततश्च गार्गी च गाायणं चेत्यपि कृते तन्मतेऽपि पुस्त्वं यथा स्यात् । स्यर्थः पुमर्थो भवतीति स्त्रीलक्षणोऽर्थो यस्य शब्दस्य स पुमर्थः । यद्वा शब्दस्येति वृत्तावध्याहर्त्तव्यं तस्य संबन्धी20 स्त्रीलक्षणोऽर्थः पुमर्थः । अर्थग्रहणाच्च विशेषणानामपि पुस्त्वं सिद्ध, शब्दस्यैव पुस्त्वे विशेषणानां न स्यात् । गाावित्यत्र पुवद्भावेनानुप्रयोगे विशेषः, शोभनौ गाग्यौं ।। ३. १.१२५॥
पुरुषः स्त्रिया ॥ ३. १. १२६ ॥
पुरुषशब्दोऽयं प्राणिनि पुंसि रूढः, स्त्रीवाचिना शब्देन सहोक्तौ25 पुरुषवाची शब्द एकः शिष्यते, तन्मात्रभेदे स्त्रीपुरुषमात्रभेदश्चेद्भवति । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ, कुक्कुटश्च कुक्कुटी च कुक्कुटौ, मयूरश्च मयूरी च मयूरो, कारकश्च कारिका च कारको, गोमांश्च गोमती च गोमन्तौ,-पटुश्च