SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ १२ ] बृहद्वृत्ति-लवुन्याससंवलिते [पा० १. मू० ११-१३.] बहुव्रीहिः समुदायस्यावयवेषु समवेतत्वात्, न्यग्भूतावयवत्वेन च समुदायप्राधान्यादेकवचनम् । संज्ञिसामानाधिकरण्येऽपि स्मृतयः प्रमाणम्' इतिवदाविष्टलिङ्गत्वा व्यञ्जनमिति नपुंसकत्वम् । व्यज्यते प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनम्, स्वराणामर्थप्रकाशने उपकारकम्, यथा-सूपादीन्योदनस्येति । कस्य आदिः कादिरिति व्याख्याने व्यवस्थावाच्यप्यादिशब्दः, तेन स्वराणां न व्यञ्जनसंज्ञा, अनुस्वारविसर्गयोस्तु भवति । ततोऽनुस्वारस्य व्यञ्जनसंज्ञायां 5 संस्कर्तेत्यत्रानुस्वाररूपव्यञ्जनात् परस्य सस्य "धुटो धुटि स्वे वा" [ १. ३. ४८. ] इत्यनेन लुक् सिद्धः । विसर्गस्य तु व्यञ्जनत्वे सुपूर्वस्य दुःखयते: क्विपि, णिलुकि, सेश्च लुकि "पदस्य" [२. १. ८६.] इति विसर्गरूपसंयोगान्तस्थस्य खस्य लुक् सिद्धः; विसर्गम्य च कस्यादिरिति व्युत्पत्त्या अपञ्चमान्तस्थः० [ १. १. ११. ] इति धुट्त्वे च "धुटस्तृतीयः" [२. १. ७६. ] इति स्थान्यासन्ने गत्वे सति सुदुगिति सिद्धम् ।। १० ॥ 10 अपञ्चमान्तस्थो धुद ॥ १. १. ११ ॥ वर्गपञ्चमान्तस्थावर्जितः कादिर्वर्णो धुट्संज्ञो भवति । क ख ग घ, च छ ज झ, ट ठ ड ढ, त थ द ध, प फ ब भ, श ष स ह । धुट्प्रदेशाः -"धुटो धुटि स्वे वा” [१. ३. ४८.] इत्यादयः ।। ११ ।। पञ्चको वर्गः ॥ १. १. १२ ॥ 15 कादिषु वर्णेषु यो यः पञ्चसंख्यापरिमाणो वर्गः स स वर्गसंज्ञो भवति । क ख ग घ ङ, च छ ज झ ब, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म । वर्गप्रदेशा:-"कवर्गकस्वरवति" [२. ३. ७६.] इत्यादयः ।। १२ ॥ न्या० स०–पञ्चक०-सजातीयसमुदायो. वर्गः । स च वर्गः कवर्गादिभेदेनाष्टधा वर्णसमाम्नाये केवलिकादिशास्त्रेषु प्रसिद्धः, तत्र च यः पञ्चसंख्यात्वेन व्यवस्थित-20 स्तस्येह वर्गसंज्ञेत्यत आह-कादिष्विति । यो य इति-संज्ञिनां बहुत्वादगृहीतवीप्सोऽपि पञ्चशब्दो वीप्सां गमयतीति । वृणोत्यात्मीयमेकत्वेन व्यवस्थापयति “गम्यमि०" [उणा० ६२.] इति गे वर्गः, जात्यपेक्षमेकवचनम् ।। १२ ।। आद्यदिवतीयशषसा अघोषाः ॥ १. १. १३ ॥ वर्गाणामाद्य-द्वितीया वर्णाः श-ष-साश्चाघोषसंज्ञा भवन्ति । क ख, च25 छ, ट ठ, त थ, प फ, श ष स । बहुवचनं सर्नवर्गाणामाद्य-द्वितीयपरिग्रहार्थम् । अघोषप्रदेशाः-"अघोषे प्रथमोऽशिट:" [१. ३. ५०.] इत्यादयः ।। १३ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy