SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० १०३-१०४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४६१ भवन्ति । उपमानं सामान्यैरेवेत्यवधारणेन विशेषणसमासे प्रतिषिद्धे समासविधानार्थं वचनम् ॥ १०२ ॥ न्या० स०---उपमेयं०। शब्दः प्रयुज्यत इति । यदा प्रकरणादिवशानियतसाधारणगुणप्रतिपत्तौ व्याघ्रादिशब्द: शौर्यादौ पुरुषार्थे एव वर्तते तदा साम्यानुक्ती सामानाधिकरण्ये सति समासो भवति । यदा तु गुरणान्तरव्यवच्छेदाय विशिष्टसाधारण-5 गुणप्रतिपत्तये शूरादिशब्दप्रयोगस्तदा साम्यानुक्तिग्रहणात् समासाभावः। पुरुषव्याघ्रः शूर इति । नन्वत्र व्याघ्रः शूर इति व्याघ्रपदस्य शूरपदाऽपेक्षयाऽपि समासो न भविष्यति कि प्रतिषेधेन ? इत्याह-इदमेव चेति । पलाविकेति पलतेरचि तस्याविका पलाविका पक्षिरणी ।। ३. १. १०२॥ ' पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरम् 10 ॥३. १. १०३ ॥ पूर्वादीनि नामान्येकार्थानि परेण नाम्ना सह समस्यन्ते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । पूर्वश्चासौ पुरुषश्च पूर्वपुरुषः, एवमपरपुरुषः, प्रथमपुरुषः, चरमपुरुषः, जघन्यपुरुषः, समानपुरुषः, मध्यपुरुषः, मध्यमपुरुषः, वीरपुरुषः । 'विशेषणं विशेष्येण'-[३. १. ६६.] इत्यादिनैव15 सिद्धे स्पर्धे परमिति पूर्वनिपातस्य विषयप्रदर्शनार्थमद्रव्यवाचिनोरनियमेन पूर्वापरभावप्रसक्तौ पूर्वनिपातनियमार्थं वचनम्-तेन पूर्वजरन्, वीरपूर्वः, पूर्वपटुः । कथमेकवीर इत्यादौ वीरादेः परस्य स्पर्धे पूर्वनिपातो न भवति ? बहुलाधिकारात् ।। १०३ ॥ न्या० स०--पूर्वाऽपर० । पूर्वपुरुष इत्यादि। दिगवाचकत्वेऽपि सूत्रोपादान-20 सामर्थ्यात् समासः, न तु दिगधिकमित्यनेन निषेधः। पूर्वपटुरिति पूर्वशब्दो दिग्योगेन कालयोगेन वा द्रव्यं विशिनष्टि, पटुशब्दश्च पटुत्वेन। तत्र विशेषणसमासे द्वयोरपि गुणवचनविशेषणत्वात् खञ्जकुण्टादिवदनियमेन पूर्वनिपातः स्यात् । बहुलाधिकारादिति अत्र सुधाकरस्त्वाह यद्यप्येकवीर इति शिष्टप्रयुक्तस्तथापि शिष्टप्रयोगात् साक्षात् स्मृतिरेव बलीयसीत्यसाधुरेवायमिति ।। ३. १. १०३ ।। श्रेण्यादि कृतायैश्व्य र्थे ॥ ३. १. १०४ ॥ श्रेण्यादि नामैकार्थं कृतार्नामभिः सह समस्यते, च्व्यर्थे गम्यमाने, स 25
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy