________________
४८२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
पा० १. सू० ६४-६५.]
अंशग्रहणं किम् ? अहनि भुक्तम् । एतत्तु ते दिवा वृत्तं रात्रौ वृत्तं तु द्रक्ष्यसि । कथं रात्रिवृत्तम् संध्यागजितमिति-बहुलाधिकारात् । क्त नेत्येव ? तत्र भोक्ता, पूर्वाह णे भोक्ता ।। ६३ ।।
न्या० स०--तत्राहोरा०। पृथग्योगाविति तत्राहोरात्रांश च क्त नेति चकारादन्यत् नाम । तत्रेति सप्तम्यन्तमिति सप्तमीसाघात् अप् प्रत्ययोऽप्यत्र सहमीसाधर्म्य 5 पुनस्त्रपोऽधिकरणार्थता यथैव ह्यधिकरणार्थप्रत्यायनाय सप्तमी प्रयुज्यते तथा त्रबपीति ।। ३. १.६३ ॥
नाम्नि ।। ३. १. १४ ॥
सप्तम्यन्तं नाम नाम्ना समस्यते, नाम्नि संज्ञाविषये, समदायश्चेत्संज्ञा भवति स च समासस्तत्पुरुषसंज्ञो भवति । अरण्येतिलकाः, अरण्येमाषकाः,10 वनेकशेरुकाः, वनेवल्वजाः, कूपेपिशाचिकाः, वनेहरिद्र काः, पूर्वाह गस्फोटकाः, अपराहणेस्फोटकाः, तथा स्तूपेशाणः, मुकुटेकार्षापणः, हलेद्विपदिका,सप्तम्या अलुप्, नित्यसमासोऽयम्, नहि वाक्येन संज्ञा गम्यते ।। ६४ ।।
न्या० स०--नाम्नि । अरण्येतिलका इति तिलप्रकारा माषप्रकाराः 'कोण्वादे:' [ ७. २. ७६. ] इति कः। कशेरुकवल्वज वृक्षविशेषौ तृणे च । पिशाचिका भट्टारिका ।15 . सप्तम्या अलुबिति अरण्येतिलका इत्यादिषु 'अव्यञ्जनात्' [ ३. २. १८.] इत्यनेन स्तूपेशारण इत्यादिषु तु 'प्राक्कारस्य' [३. २. १६.] इत्यनेन ।। ३. १. ६४ ।।
कृोनावश्यके ॥ ३. १. ६५ ॥
सप्तम्यन्तं नाम ‘य एच्चातः' [५. १. २८.] इति कृद्यप्रत्ययान्तेन नाम्ना समस्यते, आवश्यकेऽवश्यंभावे गम्यमाने, तत्पुरुषश्च समासो भवति ।20 मासेऽवश्यं देयम्-मासदेयम्, एवं संवत्सरदेयम्, पूर्वाह णेगेयम्, प्रातरध्येयम्, ग्रामदेयम्, नगरदेयम् । कृदिति किम् ? मासे पित्र्यम् । य इति किम् ? मासे स्तुत्यः, मासे पाच्यम्, मासे दातव्या भिक्षा। संवत्सरकर्तव्यमिति तु बहुलाधिकारात् । आवश्यक इति किम् ? मासे देया भिक्षा ।। ६५ ।।
न्या० स०--कृद्य ना०। मासेऽवश्यमिति 'यद्भावो भावलक्षणम्' [२. २.25 १०६.] इति सप्तमी मासे गते देयमिति हि मासादिभावो लक्ष्यते इति । अथवा मासाद्येक