SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ७०-७१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४६६ समासो भवति एकशब्दस्य चादन्तो भवति । एकेन नविंशतिः-एकानविंशतिः, पक्षे एकाद्नविंशतिः, एवमेकान्नत्रिंशत्, एकाद्न त्रिंशत्, एकान्नचत्वारिंशत्, एकाद्नचत्वारिंशत् । नविंशत्यादिनेति निर्देशात् 'नत्रत्' [३. २. १२५.] न भवति ।। ६६ ।। न्या० स०-नविंशत्यादिन। नत् न भवतीति 'नत्रव्ययात् संख्याया ड:'5 [७. ३. १२३. ] इत्यपि न भवति, विधानसामर्थ्यात् 'लुगस्य' [२. १. ११३ ] इत्यादिना अलोपो न भवति, अन्यथा तू इति कुर्यात् इति ।। ३. १. ६६ ॥ चतुर्थी प्रकृत्या ॥ ३. १. ७० ॥ प्रकृतिः-परिणामि कारणम्, चतुर्थ्यन्तमर्थाद्विकृतिवाचि नाम प्रकृतिवाचिना नाम्ना सह समस्यते, तत्पुरुषश्च समासो भवति । यूपाय10 दारु-यूपदारु, कुण्डलहिरण्यम् । प्रकृत्येति किम् ? रन्धनाय स्थाली, अवहननायोलूखलम्, मूत्राय संपद्यते यवागूरित्यादौ तु विकारस्याप्रधानस्य संपद्यते इत्यादिक्रियासापेक्षत्वात् न भवति ।। ७० ॥ न्या० स०--चतुर्थी०। प्रक्रियते परिणामरूपतयेति वा प्रकरोति कार्यमिति वा बाहुलकात् क्तिः, प्रक्रियादिति वा 'तिक्कृतौ नाम्नि' [ ५. १. ७१. ] । प्रकृतिः,15 परिणामि इत्यत्र तेन रूपेण यूपादिलक्षणेन भवनं तद्भावः परिणामः सोऽस्याऽस्तीति । रन्धनाय स्थालीति । यथा यूपाद्यात्मना दादि प्रतिष्ठमानं यूपादेः प्रकृतित्वेन विज्ञायते, नैवं रन्धनादे: स्थाल्यादीनि । मूत्राय संपद्यते इति यद्यप्यार्थ्या विधेयतया मूत्रस्य प्राधान्यं तथापि शाब्द्या प्रथमं यवाग्वा सह क्रियासंबन्धः । यथा राज्ञः पुरुष इति आर्थ्या राज्ञः प्राधान्येऽपि शाब्द्या पुरुषस्येव इति अप्राधान्यं । ततश्च अप्रधानसापेक्षे समासो20 न भवति, प्रधानसापेक्षे तु भवत्येव ॥ ३. १. ७० ।। हितादिभिः ॥ ३. १. ७१ ॥ चतुर्थ्यन्तं नाम हितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । गोभ्यो हितं-गोहितम्, एवं गोसुखम्, गोरक्षितः, हित, सुख, रक्षित, बलि, इति हितादयः । प्राकृतिगणनायम्-तेन अश्वघासः, श्वश्रूसुरा, श्वश्रूसुरम्,25 हस्तिविधानम्, धर्मनियमः, धर्मजिज्ञासा, नाटयशाला, आत्मनेपदम्, परस्मैपदम्
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy