________________
[पा० १. सू० ५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ । औदन्ता इति बहुवचनं वर्णेष्वपठितानां दीर्घपाठोपलक्षितानां प्लुतानां संग्रहार्थम्, तेन तेषामपि स्वरसंज्ञा । स्वरप्रदेशा:-"इवर्णादेरस्वे स्वरे यवरलम्" [१. २. २१.] इत्येवमादयः ।। ४ ।।
न्या० स०-प्रौदन्ता इत्यादि-अत्रान्तशब्दोऽवयववाचीत्यवयवेन विग्रहः, समुदायः समासार्थः, अवयवस्य चावश्यं समुदायरूपेऽन्यपदार्थेऽन्तर्भावः, अत एवात्र तद् गुणसंविज्ञा- 5 नोऽयं बहुव्रीहिः, यथा-लम्बकर्ण इत्यादौ, न त्वतद्गुणसंविज्ञानः, यथा-चित्रगुरित्यादौ । ज्ञापकं चात्र "प्रष्ट और्जस्-शसोः" [१.४. ५३. ] "प्रातो रणव औः" [४ २. १२०.] "उत औविति व्यञ्जनेऽद्वे:" [४. ३. ५६.] इत्यादि । औकारस्य हि स्वरत्वाभावे "अष्ट औः०" [१. ४. ५३.] इत्यादिसूत्रेषु “स्वरे वा" [१. ३. २४.] इत्यनेन यलोपो न स्यात् । तकार इति-उच्चार्यते स्वरूपेण स्वीक्रियतेऽनेनेत्युच्चारणम्, स्वरूपपरिग्रह इति भावः ।10 तपरत्वान्निर्देशस्य 'पौत्' इत्युक्ते औकारस्वरूपं प्रतीयते, तकाराभावे तु प्राबन्ता इति कृते कष्टा प्रतीतिर्भवेदिति भावः । ननु लकारः कृपिस्थ एव प्रयुज्यते, न च तत्र स्वरसंज्ञाया: किमपि प्रयोजनम्, ल कारस्य तु सर्वथा प्रयोग एव नास्तीति?, नैवम्-क्लप्प्त: 'क्ट ३प्तशिख !', इत्यादौ द्वित्व-प्लुतादेः स्वरकार्यस्य दर्शनात् । तथाहि-"प्रदीर्घाद् विरा
१. ३. ३२. ] इत्यनेन द्वित्वम्, “दूरादामन्यस्य." [७. ४. ६६.] इत्यनेन15 प्लूतश्च स्वराश्रितः प्रतिपादितः तत्र स्वरस्याधिकृतत्वाद , असति स्वरत्वे तन्न स्यादिति । प्रदेशा इति-प्रदिश्यन्ते संज्ञाप्रयोजनान्येषु इति “व्यञ्जनाद घा" [५. ३. १३२.] इति घत्रि प्रदेशाः, संज्ञाप्रयोजनस्थानानीत्यर्थः ।। ४ ।।
एकदिवत्रिमात्रा स्वदीर्घप्लुताः ॥ १. १. ५ ॥
मात्रा कालविशेषः, एक-द्वि-त्र्युच्चारणमात्रा औदन्ता वर्णा यथासंख्यं 20 ह्रस्व-दीर्घ-प्लुतसंज्ञा भवन्ति । एकमात्रो ह्रस्वः-अ इ उ ऋ लु । द्विमात्रो दीर्घः आ ई ऊ ऋ ल ए ऐ ओ औ । त्रिमात्रः प्लुतः-आ३ ई३ ऊ३ इत्यादि । ऐदौतौ चतुर्मात्रावपीत्यन्ये । औदन्ता इत्येव ? प्रतक्ष्य, अत्रार्धमात्रिकयोwञ्जनयोः समुदायस्यैकमात्रत्वेऽपि ह्रस्वसंज्ञाया अभावात् तोऽन्तो न भवति । वर्णानां च ह्रस्वादिसंज्ञाविधानात् 'तितउच्छत्रम्' इत्यादावकारोकारलक्षण-25 वर्णसमुदायस्य द्विमात्रत्वेऽपि दीर्घसंज्ञाया अभावाद् द्वित्वविकल्पो न भवति । सन्ध्यक्षराणां तु एकमात्रिकत्वाभावाद् ह्रस्वसंज्ञा न भवति । ह्रस्वादिप्रदेशाः"ऋतृति ह्रस्वो वा” [१. २. २.] इत्यादयः ।। ५ ।।
न्या० स०–एक-द्वीत्यादि० एकमात्र इति-स्वरस्यात्यन्तापकृष्टो निमेषोन्मेष