SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ . बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू ५३.] न्या० स०-पूर्वापराध। पूर्वः कायस्येति पूर्वो भागः कस्मात् ? नाभ्यादेः, कस्य ? कायस्येति संबन्धाद्दिक्पञ्चमी कायशब्दान्न भवति । पूर्व छात्राणामिति बहुवचनात् भेदप्रतोतिः, छात्राणां संबन्धिनं कस्मादपि छात्रात् पूवमित्यर्थः । प्रसज्य प्रतिषेधः किमिति ; यद्यत्राभिन्न न भवतीति पर्युदासः स्यात्तदा समाहारस्यकत्वादत्रापि समासः स्यात, भिन्नेन न भवतीति प्रसज्यप्रतिषधे तु विज्ञायमाने समाहारद्वद्वस्य 5 भेदपूर्वकत्वात् भेदनिमित्तः प्रति घोऽपीति समासाभावः। अंशिनेति किमिति ननु नाभेर्यः पूर्वो भागो व्यवस्थितः, स कायस्य शोभनो रिक्तो वेत्याद्यर्थोऽत्र विवक्षितस्तत्र पूर्वस्य कायापेक्षत्वेनासमर्थत्वादेव नाभ्या सह समासो न प्राप्त: किमंशिवर्जनेन ? सत्यं, . यद्यपि कायापेक्षत्वं पूर्वस्य तथापि प्रधानसापेक्षत्वेऽपि वृत्तिर्भवतीति असत्यंशिनेत्यस्मिन्नवधिभूतया नाभ्या समासः संभाव्येत, अमुना कायेनांऽशिना सह समासो यथाभिधानमस्ति 10 तत: प्रवर्तते पूर्वकायो नाभेरिति ।। ३. १. ५२ ।। सायाहनादयः ॥ ३. १. ५३ ॥ सायाह्नादयः शब्दा अंशिना तत्पुरुषेण साधवो भवन्ति । सायमह्नः सायाह्नः, मध्यमह्नः मध्याह्नः, मध्यं दिनस्य मध्यंदिनम्, मध्यं रात्रेः मध्यरात्रः, उपारताः पश्चिमरात्रगोचरात् इत्यादयः । बहुवचनमाकृतिगणार्थम्-पूर्वे15 पञ्चालाः, उत्तरे पञ्चालाः इतिवत्समुदायवा चिनामंशेऽपि प्रवृत्तिदर्शनात् सामानाधिकरण्ये सति कर्मधारयेणैव सिद्धम् । पूर्वश्चासौ कायश्च पूर्वकायः, सायं च तदहश्च सायाह्न इति । तत्पुरुषविधानं त्विह पूर्वत्र चाह्नः सायं कायस्य पूर्वमिति षष्ठीसमासबाधनार्थम् ।।५३ un ) न्या० स०--सायाह्नादयः। स्यतेशि औरणादिको वा सायशब्दः, मान्तमव्ययं 20 वा। सायमह्न इति नन 'सायम' शब्देनाऽहरन्त उच्यते इत्युक्तार्थत्वात सायमहइ विग्रहेऽहनशब्दस्य प्रयोगो न प्राप्नोति ? सत्यं, दिनान्ते यानि कार्याणि क्रियन्ते तान्यप्युपचारात् 'सायम्' शब्देनोच्यन्ते, ततः संदेहः किं कार्याण्यभिधीयन्ते उत दिनान्त इत्यहन्शब्दः प्रयुज्यते, सूत्रसामर्थ्यात् वा तस्माच्च दिनान्त एव लभ्यते । उपारताः पश्चिमरात्रगोचरा-दपारयन्त: पतितुजवेन गाम् ।। 25 तमुत्सुकाश्चक्रुरवेक्षणोन्मुखं, गवां गणाः प्रस्नुतपीवरोधसः ।। १॥ किराते षष्ठोसमासबाधनार्थमिति ननु सायमोऽव्ययत्वात् 'तृप्र' [३. १. ८५.] इत्यादिना षष्ठोसमासस्य निये पेन प्राप्तिरेव नास्ति किमुच्यते षष्ठीसमासबाधनार्थमिति ?. उच्यते, यदाऽकारान्तः सायशब्दोऽनव्ययं नपुंसकलिङ्गस्तदा प्राप्नोति ।। ३.१.५३ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy