SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ४५० ] बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० ३६.] द्यूतं पञ्चभिरक्षः शलाकाभिर्वा भवति, तत्र यदा सर्वे उत्ताना अवाञ्चो वा पतन्ति तदा पातयितुर्जयः अन्यथापाते पराजयः । एकनाक्षेण शलाकया वा न तथावृत्तम् यथा पूर्वं जये एकपरि, द्विपरि, त्रिपरि, परमेण चतुष्परि, पञ्चसु त्वेकरूपेषु जय एव भवति । अक्षेणेदं न तथा वृत्तम् यथा पूर्वं जये अक्षपरि, शलाकापरि। संख्यादीति किम् ? पाशकेन न तथा वृत्तम् । 5 परिणेति किम् ? अक्षेण परिवृत्तम् । द्यूत इति किम् ? रथस्याक्षेण न तथा वृत्तम् । अन्यथावृत्ताविति किम् ? पञ्चपरीति माभूत् । केचित् समविषमद्यूते सममित्युक्त यदा विषमं भवति, तदा अक्षपरि शलाकापरीति प्रयुज्यत इत्याहुः। अन्ये पूर्वं पदमाहूतं तच्च पतितमिष्टं सिद्धं पुनस्तदाहूतं यदा न पतति, तदायं प्रयोगोऽक्षपरि शलाकापरीत्याहुः ।। ३८ ।।। 10 न्या० स०-संख्याक्षशलाकं० । ननु 'नाम नाम्नैकार्थ्य' [३. १. १८.] इत्यतः सूत्रात् ऐकायें सतीत्यनुवर्तते, तत ऐकाक्षं सति समासः ऐकार्थ्यं च ऐकपद्यं तच्च समासे सति भवति, तत इतरेतराश्रयदोषे समासः कथम् ? उच्यते, यत्र यत्र येन सूत्रेण समासः कर्तुं मिष्यते तत्र तत्र तस्मादेव ऐकार्थ्यं प्रथमं ज्ञातव्यम्. ततः समासः, अन्यथा हि सर्वाण्यपि सूत्राणि निरर्थकतां भजेरन् इति हि न्यासविदः। षडादिभि ताभावात्।। षट्परीत्यादि न भवति, उत्कर्षतस्तु चतुष्परीत्येव नित्यसमासोऽयमिति परिप्रयोगो वाक्ये नाऽकथि, किंतु न तथा वृत्तमिति पर्यायः । समविषम ते इति एकिकाद्विकारूपे। अन्ये पूर्वमिति तस्मिन्ने व द्यूते ।। ३. १. ३८ ।। विभक्तिसमीपसमृद्धिव्यूद्ध्यर्थाभावात्ययासंप्रति. पश्चात्कमख्यातियुगपत्सहकसंपत्साकल्यान्तेऽव्ययम् 20 ॥ ३.१.३६ ॥ विभक्त्यादिष्वर्थेषु वर्तमानमव्ययं नाम नाम्ना सहैकार्थ्ये सति पूर्वपदार्थेऽभिधेये नित्यं समस्यते, स च समासोऽव्ययीभावसंज्ञो भवति । विभक्तिविभक्त्यर्थः कारकम्, अधिस्त्रि निधेहि-स्त्रीषु निधेहीत्यर्थः, एवमधिकुमारि, समीपे-उपकुम्भ, कुम्भस्य समीप इत्यर्थः, एवमुपाग्नि, उपशरदम्,25 ऋद्धराधिक्यं समृद्धिः-सुमद्रम्, मद्राणां समृद्धिरित्यर्थः, एवं सुमगधम्, सुभिक्षम्, विगता ऋद्धिः व्यृद्धि:-ऋद्धयभावः, दुर्यवनं-यवनानामृद्धयभाव
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy