________________
[पा० १. सू० ३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
परोक्त नापि द्रढयति-नया इत्यादि नीयन्ते प्राप्यन्ते जीवादयोऽर्था एकदेशविशिष्टा एभिरितिनयाः, निरवधारणा अभिप्रायविशेषाः, सावधारणस्य दुर्नयत्वात्, समस्तार्थप्राप्तेस्तु प्रमाणाधीनत्वात्, ते च नैगमादयः सप्त, तत्र स्यात्पदेन चिह्निता अभिप्रेतं फलन्तिलिहाद्यच् [ “लिहादिभ्यः" ५. १. ५०, ] अभिप्रेतं फलं येभ्य इति बहुब्रीहिर्वा । प्रणता इति-प्रगन्तुमारब्धवन्तः । हितैषिरण इति विशेषणद्वारेण हेतु:, हितैषित्वादित्यर्थः। 5 'पाराद् दूरान्तिकयोः' सम्यग्ज्ञानाद्यात्मकमोक्षमार्गस्याऽऽरात् समीपं याताः प्राप्ताः, दूरं वा पापक्रियाभ्यो याताः इत्यार्याः । नन्वस्तु युक्तियुक्तः स्याद्वादस्तदधीनत्वाच्छब्दसिद्ध:, तथापि अनभिहिताभिधेयप्रयोजनत्वात् कथमिदं प्रेक्षावत्प्रवृत्तिविषय इत्याशङ्कयाऽऽहअथवेति-विविक्तानामसाधुत्वविमुक्तानां शब्दानां प्रयुक्त: सम्यग्ज्ञानरूपा सिद्धिः । साधुशब्दाश्चात्राऽभिधेयाः। यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनमिति सम्यग्ज्ञानमनन्तरं10 प्रयोजनम्, तद्वारेण तु निःश्रेयसं परमिति । यतः
द्व ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मरिण निष्णातः परं ब्रह्माधिगच्छति ।। ८ ॥
[त्रिपुरातापिन्युपनिषद् ४. १७.] व्याकरणात् पदसिद्धिः पदसिद्ध रर्थनिर्णयो भवति ।
अर्थात् तत्त्वज्ञान तत्त्वज्ञानात् परं श्रेयः ॥६॥ इति । संबन्धस्त्वभिधेय-प्रयोजनयोः साध्य-साधनभावः, शब्दानुशासनाभिधेययोस्तु अभिधानाभिधेयरूपः, स च तयोरेवान्तर्भूतत्वात् पृथग् नोपदर्शित इति ।। २ ॥
लोकात् ॥ १. १.३॥
15
उक्ताऽतिरिक्तानां क्रिया-गुण-द्रव्य-जाति-काल-लिङ्ग-स्वाङ्ग-संख्या-परि-20 माणा-ऽपत्य- वीप्सालुगवर्णादीनां संज्ञानां *परान्नित्यम्*, *नित्यादन्तरङ्गम्* *अन्तरङ्गाच्चानवकाशं बलीयः* इत्यादीनां न्यायानां च लोकाद् वैयाकरणसमयविदः प्रामाणिकादेश्च शास्त्रप्रवृत्तये सिद्धिर्भवतीति वेदितव्यम्, वर्णसमाम्नायस्य च ।। ३ ।।
तत्र
25
न्या० स०-लोकादिति-लोक्यते तत्त्वनिश्चयाय घत्र , लोकते सम्यक् पदार्थानित्यचि वा लोकः। उक्तति-उक्ताभ्यः स्वरादिसंज्ञाभ्योऽतिरिक्ता अधिकास्तासाम् । साध्यरूपा पूर्वापरीभूताऽवयवा क्रिया, विशेषणं गुणः, “सत्त्वे निविशतेऽपैति." इत्यादिलक्षणो वा । विशेष्यं द्रव्यम्, “प्राकृतिग्रहणा." इत्यादिरूपा जातिः, त्रुट्यादिलक्षणः