________________
४४४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ३१.]
न्या० स० पारेमध्ये०। समासे निपातयिष्यमाणकारान्तानामिदमनुकरणम् । पारं गङ्गाया इति विग्रहः, दिग्मात्रमेतत् गङ्गायाः पारमित्यपि कृते पारेगङ्गमिति भवत्येव 'प्रथमोक्त' [ ३. १. १४८. ] इत्यतः। पारेगङ्गमिति ननु एकारान्ततानिपातनं किमर्थं बहुलवचनादलुप्यपि सिद्धयति ? नैवं, सिध्यति यदा पारं गङ्गाया इति, सप्तमी यदा तु पारे गङ्गायाः कृतमित्यादौ सप्तम्यर्थाभावात् सप्तम्या अभावान्न सिद्ध्यति । वावचनादिति ननु । 'नित्यं प्रतिनाल्पे' [३. १. ३७.] इति नित्यग्रहणलब्धया विभाषयैव सर्वत्र पारं गङ्गाया इत्यादौ वाक्यस्य सिद्धत्वात्तत्पक्षे च गङ्गापारमिति षष्ठीसमासस्याऽपि सिद्धावचनमतिरिच्यते, न च षष्ठीसमासे प्राप्तेऽव्ययीभावस्यारम्भात्तस्याऽपि बाधा स्यादिति वाच्यं, यतो विभाषाधिकाराद् विकल्पेनाऽस्य बाधनात षष्ठीसमाससिद्धेस्तस्याऽपि विकल्पेन विधानाद् वाक्यस्य सिद्धिः ?
. 10 उच्यते, विकल्पस्यावचने पूर्वकायवदंशिसमासविमुक्त पक्षे यथा षष्ठीसमासो न भवति किंतु वाक्यमेव, एवमत्राऽपि न स्यात् । किं पुनः कारणमंशिसमासेन मुक्त षष्ठीसमासो न भवति ? उच्यते, समासतद्धितानां वृत्तिविकल्पेन वृत्तिविषये नित्यैवापवादप्रवृत्तिः, इह पुनः वावचनेनैकेन वृत्तविभाषा अपरेण वृत्तिविषयेऽपवादविकल्पः, अयं वस्त्वर्थः इह वाक्येनाभिधाने प्राप्ते वृत्तिरारभ्यमाणा वाक्यस्य बाधिका प्राप्नोति इति 15 विकल्पेन पक्षे तस्याभ्यनुज्ञानं क्रियते, तत्रापवादेऽपि विकल्पेन विधीयमाने विकल्पो वाक्यस्यैवाभ्यनुज्ञानं करोतोत्यत्सर्गस्य नित्यमेव बाधेन भाव्यं, तत्र वा ग्रहणेनोत्सर्गोऽपि पक्षेऽभ्यनुज्ञायत इति त्ररूप्यं सिद्ध्यतीति, इदमेव वावचनं 'वोदश्वितः' [ ६. २. १४४. ] इति च ज्ञापकमुत्सर्गो भवतोति, वा इति प्रत्येक संबध्यते, तेन यत्र षष्ठीसमासः प्राप्नोति, तत्रानुज्ञायते । गिर्यन्तः इत्यत्र तु तृप्तार्थ' [ ३. १. ८५. ] इत्यादिना निषिद्धोऽपि20 वावचनाद् विधीयते ॥ ३. १. ३० ॥
यावदियत्त्वे ॥३. १. ३१॥
इयत्त्वमवधारणम्-तस्मिन् गम्यमाने यावदिति नाम नाम्ना समस्यते, पूर्वपदार्थेऽव्ययीभावश्च समासो भवति । यावन्त्यमत्राणि यावदमत्रम् यावानोदनो यावदोदनम्, यावानवकाशो यावदवकाशम्,-अतिथीन् भोजय 125 यावन्त्यमत्राणीति नितिपरिमाणेनामत्रादिना तावन्त इति अतिथिपरिमारणमिहावधार्यते । इयत्त्व इति किम् ? यावद्दत्तं तावद्भक्तम्, कियद्भक्तमिति नावधारयति । यावदित्यव्ययमनव्ययं चेह गृह्यते । अव्ययमेवेत्यन्ये ।। ३१ ।।
न्या० स०-यावदियत्त्वे। इयतां परिच्छिन्नसंख्यानामियतो वा परिच्छिन्नपरि-30 माणस्य भाव इयत्त्वं तस्मिन् । यावन्तोति अव्यये तु यावदमत्राणीति कार्यम् ।