________________
[पा० १. सू० २४-२५.]
श्रीसिद्धहेमचन्द्रशदानुशासने तृतीयोऽध्यायः [ ४३६
वाचिनावस्थानादिना रूपेणेत्यर्थः, आदिपदाद् गुरुस्थानमिव स्थानमस्येत्यादि । वहेगडुरिति गडुशब्दस्योकारान्तत्वात् पुस्त्वम्, न्यासकारस्तु क्लीबत्वमपि. तथा एषु गम्यमानार्थत्वाद् द्वितोयमुखादि शब्दाप्रयोगः, मन्दमतिव्युत्पादनायेदमुच्यते, न हि वाक्योपमर्दैन समासो विधीयते नित्यत्वाच्छब्दानां पुरुषप्रयत्ननिर्वा हि शब्दाः, न हि येन प्रयत्नेनोष्ट्रमुखशब्दो निर्वय॑ते तेनैवोष्ट्रमुखमिवेत्यादिकोऽपि भिन्नाधिकरण प्रयत्नत्वाद् 5 भिन्नावैताविति, अत एवोच्यतेऽनादिशब्दप्रवाह इति। अनुवादकं च स्मृतिशास्त्रं न विधायकमतिप्रसङ्गाच्च, अन्यथा दध्ना उपसिक्त प्रोदनो दध्योदनः, गुडेन मिश्रा धाना गुडधाना इत्यादौ समासेऽ 'श्यमानानामुपसिक्त इत्यादीनां लोपार्थं यत्नः कर्तव्यः स्यात्तस्मावृत्तिविषये दधिशब्द उपसिक्तार्थवृत्तिगुंडशब्दो मिश्रार्थवृत्तिरिति वाक्येनोपदय॑ते ।। ३. १. २३ ॥
10
सहस्तेन ॥३. १. २४ ॥
सह इत्येतनाम तुल्ययोगे विद्यमानार्थे च वर्तमानं तेनेति तृतीयान्तेननाम्नाऽन्यपदार्थे समस्यते स च समासो बहुव्रीहिसंज्ञो भवति । तुल्ययोगे-सह पुत्रेण सपुत्र आगतः, सन्छात्र आगतः,-आगमनमुभयोस्तुल्यम्, विद्यमानार्थेसहकर्मणा वर्तते सकर्मकः, एवं सलोमकः, सपक्षकः, सधनः, समदः, सदर्पः,15 सविद्यः,-विद्यमानतात्र सहार्थो न तुल्ययोगः । सह इति किम् ? साकं सार्धं सत्रा अमापुत्रेण । बहुलाधिकारात् विद्यमानार्थे क्वचिन्न भवति । सहैव दशभिः पुत्रैर्भार वहति गर्दभी, सहैव धनेन भिक्षां भ्रमति । प्रथमान्तान्यपदार्थार्थ प्रारम्भः । एवमुत्तरत्रापि ।। २४ ।।
न्या० स०-सहस्तेन तेनेति तृतीयान्तप्रतिरूपकानिपातात् तृतीया। न तुल्य-20 योग इति-ननु तुल्ययोगविद्यमानार्थयोः को भेद: ? उच्यते, क्रियागुणद्रव्यैरुभयोः सशः संबन्धस्तुल्ययोगः, विद्यमानार्थता तु न तथा, तथाहि-सकर्मकादात्मनेपदमित्युक्त यथा धातोरात्मनेपदं भवति, न तथा कर्मणोऽपि, तथा सलोमको भोज्यतामिति यथा देवदत्तो भोज्यते, न तथा लोमान्यपि, तथा सपक्षक: खगो हत इत्यत्र यथा पक्षी हतो, न तथा पक्षा अपोति भावः । क्वचिन्न भवतीति तुल्ययोगे तु भवत्येव । वहति गईभीति अत्र25 तत्पुत्राणामस्तित्वमेव विवक्षितं, न तु वहनक्रियेति विद्यमानार्थता ।। ३. १. २४ ।।
दिशो रूढयान्तराले ॥ ३. १. २५ ॥ रूढया दिशः संबन्धि नाम रूढयव दिशः संबन्धिना नाम्नाऽन्तरालेऽन्य