SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४३२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० १६.] नित्यत्वाच्छब्दार्थसंबन्धानामदूरविप्रकर्षण हि बालव्युत्पत्तये वाक्यमुपदर्श्यते, न हि वाक्यमेव समासीभवति, विभक्त रपि स्वयमेव तदर्थाभावात् या निवृत्तिः सा ऐकायें इत्यनेनानूद्यते, न तु विधीयते । लक्षणं चेदमिति ननु अधिकारोऽयं लक्षणं वा उभयमपि ब्रमः, अधिकारस्तावद् देवदत्तः पचतीत्यत्र विशेषसमासनिवृत्यर्थः, अन्यथा हि पचतीत्यनेन कर्तृ सामान्यं यदुपात्तं 5 तद्देवदत्त इत्यनेन कर्तृ विशेषेण विशेष्यते इति सामानाधिकरण्येन विशेषणविशेष्यभावोऽस्ति, ननित्यादावुत्तरपदानुपादाने उत्तरपदोपस्थानार्थश्च, लक्षणं च यस्य समासस्यान्यल्लक्षणं नास्ति तस्येदं लक्षणं, तेन विस्पष्टादीनि गुणविशेषणानि गुणवचनेन विस्पष्टं पटुः विस्पष्टपटुः इति समस्यन्ते, पटवादयः शब्दाः पटुत्वादिगुणयोगात् . मुख्यतया गुणिनि वर्तमाना अपि गौणतया पाटवादावपीति । विस्पष्टादयः पटवादीनां10 प्रवृत्तिनिमित्तस्य पाटवादेविशेषणानि, न तु द्रव्यस्येति विस्पष्टमिति नपुंसकत्वं, अत एव मुख्यं सामानाधिकरण्यं नास्ति इति कर्मधारयतत्पुरुषाभावः । काष्ठा परं प्रकर्षमिति काष्ठाशब्दस्य स्त्रीलिङ्गस्य क्रियाविशेषणत्वान्नपुसकत्वे 'अनतो लुप्' [ १. ४. ५६. ] भवति, ह्रस्वत्वं तु बाहुलकान्न भवति, सोमपं कुलमित्यत्र कुलस्य विशेषणत्वे क्लोबत्वमेवेति हस्वत्वं भवत्येव । 15 ऊर्ध्वमौहूत्तिकमिति ऊर्ध्वं मुहूर्तादयो भवः कालः तत्र भवः 'अध्यात्मादिभ्य इकण्' [६. ३.७८.] इकण्, सप्तमो चोर्ध्वमोहूर्तिक इति निर्देशादुत्तरपदवृद्धिः । वाससीइवेति अत्रोत्तरपदप्राधान्यात् से 'अव्ययस्य' [३. २. ७.] इति लुप् । एवं दृष्टपूर्व इति पूर्व दृष्टा इत्यपि कृते निपातनात् ह्रस्वत्वं, तेन न मे श्रुता, नापि च दृष्टपूर्वति सिद्धम् । सामान्येन समासं कृत्वा पश्चाइ स्त्रीत्वे वा। चरन्ति गावो धनमस्येति अत्र20 समासे चरन्ति गुरिति स्यात् । नित्यसंध्यादिरिति ऐकपद्यात् "ह्रस्वोऽपदे वा' [.१. २. २२. ] इति ह्रस्वविकल्पाप्रवृत्तेनित्यं यत्वादि भवतीत्यर्थः, अन्ये त्वाहुः एको द्वावित्यादिवदुक्तष्वप्येकत्वादिषु नामार्थत्वात् केवलायाश्च प्रकृतेः प्रयोगाभावाद् भाव्यमत्र प्रथमैकवचनेन तस्य च 'दीर्घङ याब्' [ १. ४. ४५. ] इत्यनेन लुप् 'अनतो लुप्' [ १. ४. ५६. ] इति तन्मतग्रहणायाह-पदत्वार्थमिति। त्याद्यन्तार्थप्राधान्यादिति त्याद्यन्तस्य साध्यार्थ-25 धानत्वादसत्त्ववाचित्वं असत्त्वं च सामान्यं, सामान्यं च नपुसकं ततः 'अनतो लुप' [ १. ४. ५६. ] ।। ३. १. १८ ।। सुज्वार्थं संख्या संख्येये संख्यया बहुव्रीहिः ।। ३. १. १६ ॥ सुचोऽर्थो वारः, वार्थों विकल्पः संशयो वा, सुज्वार्थे वर्तमानं 30 संख्यावाचि नाम संख्येये वर्तमानेन संख्यावाचिना नाम्ना सहैकार्थ्ये समाससंज्ञं
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy