________________
४२६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
अच्छव्रज्य, अच्छोद्य । गत्यर्थवद इति किम् ? अव्ययमित्येव । - उदकमच्छं गत्वा ॥ ८ ॥
[ पा० १. सू० 2 - ११.]
अच्छ कृत्वा गतः ।
न्या० स० गत्यर्थवदो० । अत्र समासान्तविधेरनित्यत्वादत एव निर्देशाद् वा 'चवर्गदह : ' [ ७. ३. १८. ] इति समासान्तो न भवति, अवतेरचि पृषोदरादित्वाद् वकारस्य छत्वे 'स्वरेभ्य:' [१. ३. ३०. ] इति द्वित्वे अच्छ इति अभ्यादावर्थेऽव्ययं 5 निर्मलादावनव्ययम् ॥। ३. १.८ ।।
तिरोऽन्तर्थौ ॥ ३. १. ६ ।।
तिरः शब्दोऽन्तर्धी व्यवधाने वर्तमानो धातोः संबन्धिगतिसंज्ञो भवति तस्माच्च धातोः प्रागेव प्रयुज्यते । तिरोभूय, तिरोधाय । अन्तर्धाविति किम् । तिरो भूत्वा स्थितः - तिर्यग्भूत्वेत्यर्थः ॥ 8 ॥
10
कृगो नवा ॥ ३.१. १० ॥
तिरस् इत्यव्ययमन्तधौं वर्तमानं कृगो धातोः संबन्धिगतिसंज्ञं वा भवति तस्माच्च धातोः प्रागेव प्रयुज्यते । तिरस्कृत्य तिरःकृत्य, तिरस्करोति, तिर: करोति, पक्षे - तिरः कृत्वा । अन्तर्धावित्येव । तिरः कृत्वा काष्ठं गतःतिर्यगित्यर्थः ।। १० ।।
मध्येपदेनिवचनेमनस्युरस्यनत्याध्याने ।। ३. १. ११ ।।
अनत्याधानेऽर्थे
15
एतानि
सप्तम्येकवचनान्तप्रतिरूपकाण्यव्ययानि
वर्तमानानि कृगो धातोः संबन्धीनि गतिसंज्ञानि भवन्ति वा, तस्माच्च धातोः प्रागेव प्रयुज्यन्ते, अत्याधानम् उपश्लेष आश्चर्यं च ततोऽन्यदनत्याधानम् । मध्येकृत्य, मध्ये कृत्वा, पदेकृत्य, पदे कृत्वा, निवचनेकृत्य, निवचने कृत्वा, -20 निवचने - वचनाभावः, वाचं नियम्येत्यर्थः, मनसि कृत्य, मनसि कृत्वा, उरसि कृत्य उरसि कृत्वा - उभयत्र निश्चिंत्येत्यर्थः । अनत्याधान इति किम् ? मध्ये कृत्वा धान्यराशि स्थिता हस्तिनः पदे कृत्वा शिरः शेते, मनसि कृत्वा सुखं उरसि कृत्वा पारिंग शेते । अव्ययमित्येव । मध्ये कृत्वा वाचं
गतः,
तिष्ठतीत्यादि ।। ११ ।।
25